केंद्रीय गृह सचिवः खुफिया ब्यूरो प्रमुखः द्विदिवसीयभ्रमणे प्राप्नोत् जम्मूम्
जम्मूः, 14 जनवरीमासः (हि.स.)। केन्द्रीयगृहसचिवः गोविन्दमोहनः, गुप्तचरविभागस्य (इण्टेलिजेन्स ब्यूरो) निदेशकः तपनडेका तथा अन्ये वरिष्ठाः केन्द्रीयाधिकारीणः केन्द्रशासितप्रदेशे समग्रसुरक्षापरिदृश्यस्य समीक्षार्थं अद्य द्विदिवसीययात्रायां जम्मूनगरं
केंद्रीय गृह सचिवः खुफिया ब्यूरो प्रमुखः द्विदिवसीयभ्रमणे  प्राप्नोत् जम्मूम्


जम्मूः, 14 जनवरीमासः (हि.स.)।

केन्द्रीयगृहसचिवः गोविन्दमोहनः, गुप्तचरविभागस्य (इण्टेलिजेन्स ब्यूरो) निदेशकः तपनडेका तथा अन्ये वरिष्ठाः केन्द्रीयाधिकारीणः केन्द्रशासितप्रदेशे समग्रसुरक्षापरिदृश्यस्य समीक्षार्थं अद्य द्विदिवसीययात्रायां जम्मूनगरं आगमिष्यन्ति। अस्मिन् भ्रमणे आतंकवादविरोधीकार्याणि तथा सीमासुरक्षा विषये विशेषं ध्यानं दास्यते।

आधिकारिकसूत्रैः सूचितं यत् आगन्तुकदलः स्वागमनानन्तरमेव पुलिसमुख्यालये उच्चस्तरीयां सुरक्षासमीक्षासभां करिष्यति। अस्यां सभायां जम्मूकश्मीरप्रदेशे विद्यमानां सुरक्षास्थितिं सम्यगवलोक्यते, यत्र पाकिस्तानस्थितैः अभिकर्तृभिः सञ्चालिताः ड्रोनगतिविधयः तथा घुसपैठमार्गैः आतंकवादिनां शस्त्राणां च तस्करीप्रयासाः अपि परीक्ष्यन्ते।

सूत्राणि अवदन् यत् एषा समीक्षा मुख्यतया डोडा, किश्तवाड, कठुआ तथा उधमपुर इत्यादिजिलेषु स्थितेषु पर्वतीयवनप्रदेशेषु सञ्चालितेषु आतंकवादविरोधीअभियानेषु केन्द्रीभविष्यति, यत्र सुरक्षाबलाः आतंकवादिनः अन्वेष्टुं निष्क्रियं कर्तुं च निरन्तरं अभियानं चालयन्ति।

अवैधप्रवेशनिरोधकतन्त्रस्य सुदृढीकरणं तथा विभिन्नसुरक्षाएजन्सीनां मध्ये समन्वयवृद्धिः इत्येतयोः विषये अपि चर्चाः भविष्यन्ति। अस्यां सभायां मुख्यसचिवः अटलदुल्लू, गृहसचिवः चन्द्रकरभारती, पुलिसमहानिदेशकः नलिनप्रभातः, वरिष्ठाः पुलिसगुप्तचराधिकारिणः, अर्धसैनिकबलानां प्रमुखाः तथा केन्द्रीयगुप्तचरएजन्सीनां प्रतिनिधयः सहिताः शीर्षाधिकारीणः सम्मिलिताः भविष्यन्तीति अपेक्षा अस्ति।

यद्यपि नियन्त्रणरेखायां अन्ताराष्ट्रियसीमायां च समीपे काले महत् घुसपैठप्रयासः न दृष्टः, तथापि सुरक्षाएजन्सीनां मतं यत् आतंकवादीसमूहाः सीमापारस्थितेषु प्रक्षेपस्थलेषु अनुकूलपरिस्थितीनां प्रतीक्षां कुर्वन्ति। सेना तथा सीमा-सुरक्षाबलम् (बीएसएफ) नियन्त्रणरेखायाम् अन्तर्राष्ट्रीयसीमायां च कस्यापि घुसपैठप्रयासस्य विफलीकरणार्थं सततं कठोरां निगराणीं धारयतः।

सूत्राणि अग्रे अवदन् यत् केन्द्रीयदलः जम्मूसेक्टरे अन्तर्राष्ट्रीयसीमासमीपवर्तिनः प्रदेशान् भ्रमित्वा भूमिस्थितिं प्रत्यक्षतया अवलोकयिष्यति तथा परिचालनतत्परतायाः समीक्षां करिष्यति। एषः द्विदिवसीयः दौरा ८ जनवरीदिने नयीदिल्लीस्थे केन्द्रीयगृहमन्त्री अमितशाहस्य अध्यक्षतायां सम्पन्नायाः उच्चस्तरीयसुरक्षासमीक्षायाः अनन्तरमेव आयोजितः, यस्यां केन्द्रसरकारेण आतंकवादस्य सम्पूर्णनाशाय तथा जम्मूकश्मीरप्रदेशे स्थायीशान्तेः सुनिश्चित्यै स्वप्रतिबद्धता पुनरुक्ता आसीत्।

---------------

हिन्दुस्थान समाचार