रायपुरम् : मुख्यमंत्री सायः अद्य जशपुर जिल्लायाः भ्रमणे , निर्माण कार्याणां करिष्यते अवलोकनम्
रायपुरम् ,15 जनवरीमासः (हि.स.)।छत्तीसगढराज्यस्य मुख्यमंत्री विष्णुदेवसायः अद्य गुरुवासरे स्वगृहजिलां जशपुरम् भ्रमणं करिष्यति। सः पूर्वाह्णे ११ वादने बगीचा ग्रामे नगरपञ्चायत्या निर्माणकार्याणां अवलोकनं करिष्यति। ततः अनन्तरं ११ वादन ३० निमेषे गौरवपथ
मुख्यमंत्री विष्णुदेव साय


रायपुरम् ,15 जनवरीमासः (हि.स.)।छत्तीसगढराज्यस्य मुख्यमंत्री विष्णुदेवसायः अद्य गुरुवासरे स्वगृहजिलां जशपुरम् भ्रमणं करिष्यति।

सः पूर्वाह्णे ११ वादने बगीचा ग्रामे नगरपञ्चायत्या निर्माणकार्याणां अवलोकनं करिष्यति। ततः अनन्तरं ११ वादन ३० निमेषे गौरवपथस्य भूमिपूजनकार्यक्रमे सहभागी भविष्यति।

बगीचा ग्रामे एव पूर्वाह्णे ११ वादन ४५ निमेषे सामुदायिकस्वास्थ्यकेन्द्रस्य लोकार्पणं करिष्यति। तदनन्तरं स्वास्थ्यशिविरस्य, सामुदायिकस्वास्थ्यकेन्द्रस्य तथा मंगलभवनस्य निर्माणकार्याणां मध्याह्ने १२ वादन १५ निमेषे अवलोकनं करिष्यति।

ततः पश्चात् मुख्यमंत्री सायः उज्ज्वला महोत्सवकार्यक्रमे सहभागी भविष्यति। अपराह्णे ०२ वादने फरसाबहार स्थाने विभिन्नविकासकार्याणां लोकार्पणभूमिपूजनकार्यक्रमेषु भागं ग्रहीष्यति। अनन्तरं अखिलभारतीयआदिवासिकंवरसमाजस्य वार्षिकोत्सवे अपि सः उपस्थितः भविष्यति।

कार्यक्रमसमाप्तेः पश्चात् मुख्यमंत्री सायः सायं ०५ वादने स्वनिवासे बगिया ग्रामे रात्रिविश्रामं करिष्यति।

हिन्दुस्थान समाचार