मुख्यमंत्री सरमा धुबड्याः खुडीग्रामे 70 मेगावाट सौर-ऊर्जापरियोजनायाःकृतम् उद्घाटनम्
गुवाहाटी, 15 जनवरीमासः (हि.स.)। मुख्यमन्त्री डॉ. हिमन्तः बिस्वः सरमा अद्य धुबड़ीजनपदे बिलासीपारान्तर्गत खुडीग्रामे ७० मेगावाट् क्षमतायाः सौरऊर्जायाः परियोजनायाः उद्घाटनं कृतवान्। अतिक्रमणमुक्तायां १००० बीघा परिमितायां भूमौ स्थापितया अस्याः परियो
मुख्यमंत्री डॉ हिमंत बिस्व सरमा धुबड़ी के खुडीगांव में 70 मेगावाट सौर ऊर्जा परियोजना का उद्घाटन करते हुए।


गुवाहाटी, 15 जनवरीमासः (हि.स.)।

मुख्यमन्त्री डॉ. हिमन्तः बिस्वः सरमा अद्य धुबड़ीजनपदे बिलासीपारान्तर्गत खुडीग्रामे ७० मेगावाट् क्षमतायाः सौरऊर्जायाः परियोजनायाः उद्घाटनं कृतवान्।

अतिक्रमणमुक्तायां १००० बीघा परिमितायां भूमौ स्थापितया अस्याः परियोजनायाः माध्यमेन राज्यस्य कुलसौरऊर्जाक्षमता ६८० मेगावाट् पर्यन्तं वर्धिता अस्ति।

३५० कोटिरूप्यकाधिकव्ययेन निर्मिता एषा परियोजना प्रतिवर्षं १४१ मिलियन यूनिट् विद्युत् उत्पादनं करिष्यति तथा च प्रायः १.१५ लक्ष टन कार्बन उत्सर्जनस्य न्यूनीकरणं करिष्यति।

मुख्यमन्त्री अवदत् यत् राज्यसरकारस्य निरन्तरप्रयत्नैः असमराज्यं २००० मेगावाट् नवीकरणीय ऊर्जालक्ष्यस्य दिशि शीघ्रं अग्रसरं भवति।

तेन अपि सूचितं यत् एपीडीसीएल तथा एसजेवीएन ग्रीन एनर्जी लिमिटेड् इत्येतयोः मध्ये ३.९२ रूप्यकाणि प्रति यूनिट् इत्यस्य दरस्य आधारः कृत्वा विद्युत् क्रयसम्झौतः सम्पन्नः अस्ति।

अस्याः परियोजनायाः सञ्चालनं तथा परिरक्षणं २५ वर्षपर्यन्तं भविष्यति।

मुख्यमन्त्री अपि अवदत् यत् शोणितपुरजनपदे बोरसोला इति स्थाने ५० मेगावाट् क्षमतायाः अपराया सौरपरियोजनायाः निर्माणकार्यं प्रचलति, यस्य उद्घाटनं एप्रैलमासपर्यन्तं प्रस्तावितम् अस्ति।

हिन्दुस्थान समाचार