Enter your Email Address to subscribe to our newsletters


जयपुरनगरम्, १५ जनवरीमासः (हि.स.)। मुख्यमंत्री श्रीभजनलाल-शर्मा गुरुवासरे बांसवाड़ा-जनपदस्य युवभि: सह संवादे उक्तवान् यत् वागड़भूमे: शक्तिः युवान: सन्ति। विकसित-राजस्थाननिर्माणे तेषां योगदानम् अत्यन्तं महत्त्वपूर्णम्। राज्य-सर्वकारः युवभ्यः केवलं रोजगारं न दत्तम् अपि तु स्वरोजगारस्य अपार-सुविधाः अपि उपलब्धं अकारयत्। बांसवाड़ा-जनपदस्य सर्वाङ्गीण-विकासाय अपि विभिन्न-महत्त्वपूर्ण-प्रयासा: उपक्रम्यन्ते।
श्री-शर्मा उक्तवान् यत् पञ्चवर्षेषु ४ लक्षं सर्वकारी-कैंकर्याणि, ६ लक्षं वैयक्तिक-क्षेत्रे रोजगारः प्रदातुं लक्ष्यं स्थाप्यते, यत्र एकलक्षातीत-पदेषु नियुक्तयः सम्प्राप्ताः। द्विवर्षेषु एकमपि प्रश्नपत्र-लीक-घटना नासीत्। प्रतिवर्षं नियुक्ति-कलान्तरं प्रकाशितं भवति। अस्य वर्षस्य अपि १ लक्षं सर्वकारीय-पदेषु परीक्षा-कलान्तर: प्रकाशितः। द्वि-लक्षं यूनां इंटर्नशिप इति सम्पादितम्।
मुख्यमन्त्री युवा-संबल-योजना अन्तर्गतं ४ लक्षातीत-यूनां वित्तीय-भत्ता ११५० कोटि रूप्यकाणि प्रदत्तानि।राइजिंग-राजस्थान-ग्लोबल-इन्भेस्टमेंट-सम्मिट् आयोजनमाध्यमेन प्रदेशे रोजगार-आवसरः सुलभाः अभवन्। एमओयू-सङ्ख्यायाम् ८ लक्ष-कोटि रूप्यकाणि ग्राउण्ड-ब्रेकिंग कृतानि। नवीन युवा-नीतिः निस्सारिता, येन उद्यमशीलता, स्टार्टअप च विविधक्षेत्रेषु अवसराः सुनिश्चिताः। बांसवाड़ा-जनपदे औद्योगिक-क्षेत्राणां विकासेन उद्योगेभ्य: प्रोत्साहनं लब्धम्। आधारभूत-संरचनायाः निरन्तर-विकासः अपि सम्यक् अभवत्।
श्री-शर्मा उक्तवान् यत् वर्षे २०२७ पर्यन्तं कृषकेभ्य: दिवसे विद्युत् उपलब्धिं दातुं कार्यं क्रियते, इदानीं २२ जनपदेषु दिवसे विद्युत् प्रदत्तम्। पेयजल-परियोजनासु अपि निरन्तरं कार्यं क्रियते। कृषकेभ्य: केन्द्र-राज्य-योजनाभ्यः लाभान्विताः, पर्याप्त बीज-मिनी-किट्, उर्वरकं च प्रदत्तम्।
राज्य-सर्वकारः बांसवाड़ा-डूंगरपुरं प्रमुख-पर्यटन-स्थलरूपेण विकासाय कार्ययोजनां क्रियते। यूनां नवाचारम् अंगीकृत्य उन्नतिः क्रियते। अंतिमस्थाने स्थितं जनं मुख्य-धारायाम् आनेतुं तीव्रं कार्यं भवति।
प्रधानमन्त्री श्री नरेन्द्र-मोदीकृत-“सबका साथ-सबका विकास-सबका विश्वास-सबका प्रयास” मार्गेण विकसित-राजस्थानाय डबल-इंजन-सर्वकारः क्रियते। यूनां नवाचार-अनुसरणं, सामाजिक-एकता-सुदृढीकरणं च बांसवाड़ा-मॉडल-जनपदं कर्तुम् आवाहनं कृतम्।
संवादे युवभ्यः प्रश्नपत्र-लीक-निवारणं, १ लक्षातीत-पदेषु नियुक्तयः, वर्ष २०२६ परीक्षा-कलान्यरं च प्रदत्तविषयकं धन्यवादं ज्ञापितम्। यूनां शिक्षा, कृषि:, सहकारिता, आधारभूत-संरचना, धार्मिक-पर्यटनन, उद्योग:, आदिवासी-कल्याणादिषु विचारा: अपि सहभागीकृताः। मुख्यमन्त्री युवभ्यः बाणेश्वर-धाम-परिसर-सौंदर्यीकरण-कार्ययो: जनायाः पीपीटी अपि प्रकटितवान्। पूर्व-संसदसदस्यः धन-सिंह-रावतः, शंकर-निनामा च बांसवाड़ा-जनपदे युवभि: सह उपस्थिता:।
हिन्दुस्थान समाचार / अंशु गुप्ता