भगवान सूर्यः एव सृष्टेः प्रत्यक्षं देवता : विज्ञानानंदः
हरिद्वारम्, 15 जनवरीमासः (हि.स.)।श्रीगीताविज्ञानाश्रमस्य परमाध्यक्षः महामण्डलेश्वरः स्वामी विज्ञानानन्दसरस्वती महाराजः अवदत् यत् भगवान् सूर्यः एव सृष्टेः प्रत्यक्षदेवता अस्ति। तस्य प्रकाशेन एव प्राणिनां वनस्पतीनां च जीवनं संचालितं भवति। मकरसंक्रान्
स्वामी विज्ञानानंद सरस्वती महाराज


हरिद्वारम्, 15 जनवरीमासः (हि.स.)।श्रीगीताविज्ञानाश्रमस्य परमाध्यक्षः महामण्डलेश्वरः स्वामी विज्ञानानन्दसरस्वती महाराजः अवदत् यत् भगवान् सूर्यः एव सृष्टेः प्रत्यक्षदेवता अस्ति। तस्य प्रकाशेन एव प्राणिनां वनस्पतीनां च जीवनं संचालितं भवति। मकरसंक्रान्त्यां सूर्यदेवस्य गतिपरिवर्तनात् सम्पूर्णायाः प्रकृतेः वातावरणं परिवर्तते।

सः अद्य दक्षनगरे स्थिते राजा गार्डनस्थे हनुमानमन्दिरस्य सत्सङ्गहॉलमध्ये मकरसंक्रान्त्युत्सवे आगतान् भक्तान् प्रकृतौ जायमानानां परिवर्तनानां विषये अवगतं करोतिस्म। मकरसंक्रान्तेः महत्त्वं प्रतिपादयन् सः अवदत् यत् यदा भगवान् सूर्यः मकरराशौ प्रवेशं करोति तदा ऋतूनां स्वरूपं परिवर्तितुं आरभते। सूर्यप्रकाशस्य तीव्रतावृद्ध्या उष्णता वर्धते शैत्यस्य प्रभावः शनैः शनैः न्यूनो भवति।

मकरसंक्रान्तिं ग्रहाणां राशीनां च परिवर्तनपर्वरूपेण वर्णयन् सः उक्तवान् यत् सूर्यस्य गतिपरिवर्तनात् एव प्राणिषु वनस्पतिषु च विविधाः परिवर्तनाः दृश्यन्ते। सूर्यस्य उत्तरायणगतिं विवृण्वन् महामण्डलेश्वरः स्वामी विज्ञानानन्दसरस्वती महाराजः अवदत् यत् सूर्यकिरणाः दक्षिणदिशि अत्यधिकं झुकित्वा ततः उत्तरदिशं प्रत्यावर्तन्ते।

मकरसंक्रान्तिं मेलापकस्य पारिवारिकसौहार्दस्य च प्रतीकरूपेण वर्णयन् सः उक्तवान् यत् अस्मिन् दिने भगवान् सूर्यः स्वपुत्रं शनिदेवं द्रष्टुं स्वयमेव आगच्छति। मकरसंक्रान्तौ सूर्योपासनायाः महत्त्वं प्रतिपादयन् सः अवदत् यत् सूर्यस्य आराधनया मानवे शरीरे नूतनशक्तेः सञ्चारः भवति तथा उत्तमस्वास्थ्यं दीर्घायुष्यं च लभ्यते।

मकरसंक्रान्तौ स्नानदानयोः महत्त्वं वर्णयन् शतायुः सन्तः अवदत् यत् गङ्गास्नानं कृत्वा तिलगुडस्य खिचड्याः च दानं कर्तव्यम्। ये गङ्गास्नानं कर्तुं न शक्नुवन्ति तैः स्नानजले गङ्गाजलं मिश्रयित्वा स्नानं कर्तव्यम्। सूर्यनमस्कारपूर्वकं सूर्याय गङ्गाजलार्घ्यदानात् पापतापसन्तापेभ्यः मुक्तिर्भवति।

अन्ते सर्वे भक्ताः कृशरान्नप्रसादं ग्रहित्वा गुरुगद्द्याः आशीर्वादं प्राप्तवन्तः।

---------------

हिन्दुस्थान समाचार