Enter your Email Address to subscribe to our newsletters

जौनपुरम्,15 जनवरीमासः (हि.स.)। उत्तरप्रदेशस्य जौनपुरजनपदे गुरुवासरे मकरसंक्रान्तिपर्वणि जनपदं समग्रं क्षेत्रं च श्रद्धालुभिः प्रातःकाले पवित्रनदीषु सरोवरेषु च स्नानं कृत्वा दानपुण्यकर्माणि अनुष्ठितानि। अस्मिन् अवसरे देवालयेषु घाटेषु च श्रद्धालूनां महासंमर्दः दृश्यते स्म। जनैः तिलगुडखिचडीवस्त्रादीनि दत्त्वा पुण्यलाभः अर्जितः।
पर्वणः आयोजनार्थं प्रशासनतः सुरक्षा-स्वच्छतासंबद्धाः विशेषव्यवस्थाः कृताः आसन्। मकरसंक्रान्तिपर्वे स्नानदानयोः महत्त्वविषये हिन्दुस्थानसमाचारप्रतिनिधिना सह संवादं कुर्वन् आचार्यः पण्डितः अखिलेशमिश्रः ज्योतिषाचार्यः अवदत् यत् मकरसंक्रान्तेः विशेषं धार्मिकं सांस्कृतिकं च महत्त्वं वर्तते। अस्मिन् दिने सूर्यदेवः धनुराशेः मकरराशिं प्रविशति, तेन शुभकार्याणां आरम्भः मन्यते। शास्त्रेषु उक्तं यत् मकरसंक्रान्त्या उत्तरायणकालस्य प्रारम्भः भवति, यः देवतानां दिनं इति कथ्यते। अस्मिन् दिने गङ्गायमुनादिपवित्रनदीषु स्नानेन पापक्षयः भवति, दानेन च पुण्यप्राप्तिः। तिलगुडखिचडीवस्त्रदानस्य विशेषं महत्त्वं निगद्यते। एषा मान्यता अस्ति यत् मकरसंक्रान्तिदिने कृतं स्नानदानं बहुगुणं फलं ददाति।
जनपदे सईनद्याः तीरे, गोमतीनद्याः तीरे च गोपीघाटे सूरजघाटे राजेपुरत्रिमुहान्यां अचलादेवीघाटे बजरंगघाटे च जनैः नदीस्नानं कृतम्, ततः तत्र उपविष्टेभ्यः याचकेभ्यः यथाशक्ति दानं दत्तम्।
हिन्दुस्थान समाचार