Enter your Email Address to subscribe to our newsletters

मुख्यमन्त्री डॉ.यादवः एआई-सक्षम-शासनस्य तथा आर्थिक-परिवर्तनस्य कृते प्रदेशस्य रणनीतिक-मार्गचित्रं प्रस्तौष्यति
भोपालनगरम्, १५ जनवरीमासः (हि.स.)। मध्यप्रदेशस्य राजधानी-भोपाल-नगरे विज्ञान-प्रौद्योगिकी-विभागेन भारत-एआई-संस्थाया: सहयोगेन अद्य गुरुवासरे “मध्यप्रदेश-रीजनल्-एआई-इम्पैक्ट्-कॉन्फ़्रेन्स–२०२६” इति सम्मेलनम् आयोज्यते। अस्मिन् सम्मेलने मुख्यमन्त्री डॉ.मोहन-यादवः एआई-सक्षम-शासनस्य तथा आर्थिक-परिवर्तनस्य कृते मध्यप्रदेशस्य रणनीतिक-मार्गचित्रं प्रस्तौष्यति।
जनसम्पर्क-अधिकारी जूही-श्रीवास्तव-इत्यनया सूचनां दत्त्वा अवदत् यत् “एआई-इनेबल्ड्-गवर्नन्स्-फॉर्-एन-एम्पावर्ड-भारत” इति विषयेन आयोजितेन अनेन सम्मेलनेन एआई-आधारित-शासनस्य, प्रौद्योगिक्या: क्षेत्रे अकादमिक-उद्योग-समन्वयश्च वर्धिष्यते। एतेन सह प्रदेश-सर्वकारः एआई-प्रणालीं नागरिक-केन्द्रित-पारदर्शी-कुशल-शासनस्य आधारशिलारूपेण स्थापयितुं दृढ-पदानि गृह्णाति।
सा अवदत् यत् अस्मिन् सम्मेलने “मध्यप्रदेश-इनोवेशन-एक्सपो” इत्यस्य शुभारम्भः अपि भविष्यति, यस्मिन् इंडिया-एआई-पवेलियनम्, मध्यप्रदेश-पवेलियनम्, स्टार्ट-अप-शो-केसः, हैकाथॉन-एरिना तथा स्टार्ट-अप-प्रतियोगिता: च समाविष्टाः भविष्यन्ति।सम्मेलने केन्द्रीय-इलेक्ट्रॉनिक्स-सूचना-प्रौद्योगिकी-मन्त्रालयस्य अपर-सचिवः तथा इंडिया-एआई-मुख्य-कार्यकारी-अधिकारी अभिषेक-सिंहः, आईआईटी-इन्दौरस्य निदेशकः सुहास-एस-जोशी च सम्भाषणं करिष्यतः। विज्ञान-प्रौद्योगिकी-विभागस्य अपर-मुख्य-सचिवः संजय-दुबे “एआई-फॉर-पीपल, प्लेनेट एण्ड प्रोग्रेस – मध्यप्रदेश-रोडमैप-टू-इम्पैक्ट” इति विषये राज्यस्य प्रमुख-एआई-दृष्टिकोणं प्रस्तौष्यति। मुख्य-सचिवः अनुराग-जैनः अपि सम्मेलनं सम्बोधयिष्यति।
प्रदेशस्य स्पेसटेक-नीतिः उद्घाटयिष्यतेजनसम्पर्क-अधिकारिण्या उक्तं यत् अस्मिन् सम्मेलने मध्यप्रदेश-सर्वकारस्य स्पेसटेक-नीतिः औपचारिकतया उद्घाटयिष्यते। तदनन्तरं विभिन्न-सन्धि-ज्ञापनानि, नवाचार-सम्बद्धाः तथा युवा-एआई-उद्यम-सम्बद्धाः महत्वपूर्ण-घोषणाः क्रियन्ते।
सम्मेलने त्रीणि उच्चस्तरीय-विषयक-सत्राणि आयोजितानि भविष्यन्ति—टेक्नोलॉजी-लेड-गवर्नन्स-फॉर-ऑलएआई-फॉर-इकोनॉमिक-ग्रोथ एण्ड सोशल-गुड रेज़िलिएन्स, इनोवेशन एण्ड डिजिटल-इन्फ्रास्ट्रक्चर एतेषु सत्रेषु डिजिटल-इण्डिया-भाषिणी, यूआईडीएआई, एनईपीडी, विभिन्न-राज्य-सरकाराणि, तथा गूगल्, माइक्रोसॉफ्ट्, डिलोट्टी, ईवाई इत्यादयः अग्रणी-संस्थाः स्वविचारान् प्रकाशयिष्यन्ति। तथैव एमपी-इनो-टेक्-स्टार्ट-अप-पिच-प्रतियोगितायाः तथा उज्जयिनी-महाकुम्भ-हैकाथॉनस्य विजेतॄणां घोषणाः अपि करिष्यन्ते।
इंडिया-एआई-इम्पैक्ट-समिट–२०२६ प्रति महत्वपूर्णं पादं वर्तते। अधिकारिण्या उक्तं यत् इदं सम्मेलनम् इंडिया-एआई-इम्पैक्ट-समिट–२०२६ प्रति एकं महत्वपूर्णं पादम् अस्ति। अस्य समिट्-आयोजनस्य घोषणा प्रधानमन्त्री श्री-नरेन्द्र-मोदिना फ्रान्स-देशे आयोजिते एआई-एक्शन-समिट् इत्यत्र कृता आसीत्।
इंडिया-एआई-इम्पैक्ट-समिट- २०२६ १६ तः २० फरवरी-मास-२०२६ पर्यन्तं नव-दिल्ली-नगरे आयोजितं भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता