Enter your Email Address to subscribe to our newsletters

13 लक्षं महिलाःसंजाताः लखपतिभगिन्यः, 51 लक्षेण ग्रामीण परिवारैः सह युताः स्वयं सहायता समूहैः
जयपुरम्, 16 जनवरीमासः (हि.स.)।
मुख्यमंत्री भजनलालशर्मा अवदत् यत् प्रधानमंत्री नरेन्द्रमोदीनः नेतृत्वे राष्ट्रे नारीसशक्तीकरणस्य नूतनः अध्यायः लिख्यते। राजस्थानराज्ये अपि राजीविकायाः माध्यमेन नारीणः प्रदेशविकासस्य मुख्यधारायां सम्मिल्य आत्मनिर्भरत्वस्य दिशि अग्रसराः भवन्ति। सः अवदत् यत् राजीविकायाः प्रत्येकाः भगिन्यः पारिवारिकायाः आयायाः वृद्धौ योगदानं कुर्वन्ति तथा सम्पूर्णं परिवारं आत्मनिर्भरं कुर्वन्ति।
शर्मा शुक्रवारवासरे बिड़ला सभागृहे राजीविका स्वसहायता समूहाणां नारीभिः सह आयोजिते बजटपूर्वसंवादकार्यक्रमे सम्बोधनं कृतवान्। सः अवदत् यत् अस्माकं संस्कृतौ समृद्धेः देवी लक्ष्मीः ज्ञानस्य देवी सरस्वतीः शक्तेः देवी दुर्गा च आराध्यन्ते। एते त्रयः रूपाणि अस्माकं मातृभगिनीषु समाहितानि सन्ति।
सः अवदत् यत् प्रधानमंत्री नरेन्द्रमोदीनः नेतृत्वे द्विइञ्जिनसरकारा आवासात् आरभ्य रसोईगैस अनुदानपर्यन्तं नारीभ्यः विविधयोजनानां लाभं प्रददाति। मुख्यमंत्री अवदत् यत् विकसितराजस्थाननिर्माणे अपि अर्धजनसंख्यायाः भूमिका अत्यन्तं महत्त्वपूर्णा अस्ति। राजीविकायाः अन्तर्गतं प्रायः त्रयोदशलक्षाणि नारीणः लखपतिदिदी रूपेण अभवन् तेषु केचन मिलियनरदिदी अपि भवन्ति। स्वसहायता समूहैः सिद्धीकृतं यत् नारीणः श्रेष्ठाः प्रबन्धकाः उद्यमिन्यः च सन्ति। तथा च उच्चब्याजदरयुक्तऋणग्रहणस्य बाध्यातः अपि मुक्तिः प्राप्ता।
मुख्यमंत्री अवदत् यत् प्रदेशे एकपञ्चाशत् लक्षाणि ग्रामीणपरिवाराणि चतुर्लक्षाधिकैः स्वसहायता समूहैः सह संयोजितानि सन्ति। तदनन्तरं द्वात्रिंशत्सहस्राणि ग्रामसंगठनानि सहस्राधिकानि च क्लस्टरस्तरीयसंघटनानि स्थापयित्वा राजीविकायाः सुदृढं जालं निर्मितम्। आजीविकासंवर्धनकार्यक्रमस्य अन्तर्गतं षट्त्रिंशत् लक्षाधिकाः परिवाराः कृषिपशुपालनाधारितेषु क्रियाकलापेषु संलग्नाः सन्ति।
शर्मा अवदत् यत् राजीविकायाः माध्यमेन स्वसहायता समूहाणां नारीभ्यः द्विसहस्रकोटिरुप्यकाधिकं धनं आजीविकासंवर्धनार्थं प्रदत्तम्। कृषिपशुपालन तथा अकृषिकक्रियाकलापानां प्रोत्साहनार्थं सार्धत्रिसहस्राधिकाः उत्पादकसमूहाः गठिताः। एतेषां माध्यमेन प्रायः त्रिलक्षाणि परिवाराणि कृषिपशुपालनकार्येषु संलग्नानि सन्ति। कृषकपरिवारस्य नारीणः पशुपालनं अपि कुर्वन्ति अतः सरकारा दुग्धे प्रतिलिटरं पञ्चरुप्यकानां अनुदानं ददाति।
मुख्यमंत्री अवदत् यत् लाडो प्रोत्साहनयोजनायां देयराशिः एकलक्षरुप्यकात् वर्धयित्वा अर्धद्विलक्षरुप्यकपर्यन्तं कृता। प्रधानमंत्री मातृवन्दनायोजनायां पञ्चसहस्ररुप्यकाणां स्थानं षट्सहस्रपञ्चशतरुप्यकाणि कृतानि। अस्यां योजनायां प्रायः दश लक्ष गर्भिणीनारीभ्यः पञ्चशतएकत्रिंशत् कोटिरुप्यकाणां वितरणं कृतम्। मा वाउचर योजनया गर्भिणीनारीभ्यः निःशुल्का सोनोग्राफी सुविधा प्रदत्ता अस्ति। अद्यावधि द्विलक्षषड्विंशतिसहस्र नारीणः अस्याः सुविधायाः लाभं प्राप्तवन्त्यः। शिक्षासेतुयोजनायाः अन्तर्गतं नवतिसहस्राधिकाः नारीबालिकाः रोजगारोन्मुखप्रशिक्षणं प्राप्तवन्त्यः। तथा राज्ये नारीसुरक्षायै पञ्चशतकालिका गश्तीयूनिटाः गठिताः सन्ति येषां प्रभावी संचालनं क्रियते।
मुख्यमंत्री अवदत् यत् सरकारया अद्यावधि एकलक्षाधिकेषु पदेषु नियुक्तयः प्रदत्ताः तथा च चतुर्दशचत्वारिंशत्सहस्र पदेषु भरतीप्रक्रिया प्रचलति। द्वादशे जनवरीमासे युवादिवसे अस्मिन् वर्षे एकलक्ष पदानां भरतीपरीक्षाणां कलेण्डरं प्रकाशितम्। एतेषु मातृशक्त्यै अपि पर्याप्ताः रोजगारावसराः भविष्यन्ति। सरकारया युवनीतिः अपि प्रवर्तिता अस्ति यस्य लाभं नारीणः स्वरोजगारार्थं गृह्णन्तु।
शर्मा अवदत् यत् राजीविकायाः नारीणः बैंकैः बाजारैः शासकीययोजनाभिः च सह सम्बद्धाः सन्तः वित्तीयं आत्मनिर्भरत्वं प्राप्तवन्त्यः। ते ऑनलाइनमाध्यमेन स्वोत्पादितानि वस्तूनि विक्रयन्ति। सः अवदत् यत् नारीणः न केवलं स्वगृहस्य बजटं निर्धारयन्ति अपि तु राजस्थानस्य बजटे अपि अमूल्यान् सुझावान् ददतु। राजीविकानारीणः स्वसहायता समूहाणां सुदृढीकरणे आजीविकायाः नूतनावसरसृजने उत्पादविक्रयवृद्धौ प्रशिक्षणकौशलविकासविषये च स्वमतानि प्रददन्तु।
अस्मिन् अवसरे उपमुख्यमंत्री दियाकुमारी ग्रामीणविकासमन्त्री डॉ किरोड़ीलालमीणा ग्रामीणविकासराज्यमन्त्री ओटारामदेवासी अतिरिक्तमुख्यसचिवा श्रेयागुहा प्रमुखशासनसचिवः वित्तविभागे वैभवगालरिया राज्य मिशन निदेशिका नेहागिरिः च अन्ये अधिकारीगणाः बहुसंख्यकाः राजीविकानार्यः च उपस्थिताः आसन्।
---
---------------
हिन्दुस्थान समाचार