Enter your Email Address to subscribe to our newsletters




- मुख्यमंत्री कृतवान् भारतीय पुलिस सेवायाः वार्षिक सम्मेलनस्य शुभारंभम्
भोपालम्, 16 जनवरीमासः (हि.स.) ।
मुख्यमन्त्री डॉ. मोहनयादवः अवदत् यत् मध्यप्रदेशे संगठितस्य अपराधस्य किञ्चिदपि स्थानं नास्ति, तथा च राज्यं आन्तरिकसुरक्षायाः आदर्शराज्यरूपेण स्थापनं सरकारस्य लक्ष्यं अस्ति। प्रदेशे शीघ्रमेव पदोन्नतिसम्बद्धानां स्वीकृतिनां विषयेषु सूचनाः प्रदास्यन्ते। तदेव च पुलिसविभागस्य अधिकसुदृढीकरणाय पर्याप्ताः भर्तयः अपि क्रियन्ते। कानूनव्यवस्थायाः दृढीकरणे पुलिसस्य भूमिका अत्यन्तं महत्त्वपूर्णा अस्ति, तथा सरकार सर्वस्तरेषु सहयोगाय प्रतिबद्धा अस्ति।
मुख्यमन्त्री डॉ. यादवः शुक्रवासरे राजधानी भोपालस्थिते कुशाभाऊ ठाकरे अन्ताराष्ट्रिय सम्मेलनकेन्द्रे आयोजिते भारतीयपुलिससेवायाः वार्षिकसम्मेलने सम्बोधनं कुर्वन् आसीत्। ततः पूर्वं मुख्यमन्त्रिणा दीपप्रज्वलनेन सम्मेलनस्य शुभारम्भः कृतः। सः अवदत् यत् पुलिससेवायां बहवः प्रकाराः आव्हानाः भवन्ति, तथापि पुलिसकर्मिणः पूर्णया निष्ठया समर्पणेन च स्वकर्तव्यं निर्वहन्ति। तेन सर्वे पुलिसअधिकारीणः जवानाः च अभिनन्दनस्य पात्राणि इति उक्तम्।
मुख्यमन्त्रीणः उक्तम् यत् वर्षं २०२५ मध्यप्रदेशसर्वकारस्य उपलब्धिभिः परिपूर्णं आसीत्, तथा सरकारः पुलिसविभागः च नवानुभवैः सह अग्रे गच्छतः। सः अपि अवदत् यत् राष्ट्रविरोधीनां शक्तीनां विरुद्धं मध्यप्रदेशपुलिसः सततं प्रभावी कार्यवाहीं करोति, तथा राज्ये संगठितः अपराधः कदापि न पनप्स्यति। मुख्यमन्त्री डॉ. यादवः लोकतन्त्रस्य कानूनव्यवस्थायाः च दृढतायां पुलिसस्य भूमिकां प्रशंसन् अवदत् यत् पुलिसः सर्वदा सरकारस्य सह स्थिता अस्ति। तेन नशाविरोधी अभियानेषु प्रदेशपुलिसस्य निरन्तरं लभ्यमानां सफलतां अपि प्रशंसितम्।
मुख्यमन्त्री डॉ. यादवः अवदत् यत् नूतनानां कानूनानां प्रभावी क्रियान्वयने मध्यप्रदेशपुलिसः देशस्य कृते आदर्शरूपेण उद्भूता अस्ति। तेन उक्तं यत् प्रदेशे साइबरअपराधान् सहित्य सर्वान् प्रकारान् संगठितान् गिरोहान् अपराधिणः च प्रति निरन्तरं कठोरकार्यवाही क्रियते। मुख्यमन्त्रीणः नक्सलवादविरुद्धं चालितानां अभियानों प्रशंसां कृत्वा उक्तं यत् प्रदेशस्य भूमेः नक्सलवादस्य पूर्णनाशे पुलिसअधिकारीणां महती भूमिका आसीत्। तस्मै कारणाय तेन पुलिसबलम् अभिनन्दितम्।
मुख्यमन्त्रिणः उक्तं यत् देशभक्तेः जनसेवायाः च भावनां अधिकं सुदृढां कृत्वा मध्यप्रदेशं आन्तरिकसुरक्षायाः आदर्शराज्यरूपेण स्थापनं अस्माकं सर्वेषां सामूहिकं लक्ष्यं अस्ति, तथा अस्मिन् कार्ये पुलिसस्य भूमिका सर्वोपरि अस्ति।
भारतीयपुलिससेवायाः वार्षिकसम्मेलनस्य शुभारम्भावसरे मुख्यमन्त्री डॉ. यादवः पदप्रयाणस्य सलामीं स्वीकृतवान्। अस्मिन् अवसरें पुलिसमहानिदेशकः कैलाशमकवाना भारतीयपुलिससेवासंघस्य अध्यक्षः चंचलशेखरः च पुष्पगुच्छं पौधं च समर्प्य मुख्यमन्त्रिणः स्वागतं कृतवन्तौ। अस्मिन् अवसरें पुलिसमहानिदेशकः कैलाशमकवाना स्वागतउद्बोधनं दत्तवान्।
हिन्दुस्थान समाचार