तपोभूमि चित्रकूटं प्राप्नोत् बागेश्वर धाम्नः पीठाधीश्वर धीरेन्द्र कृष्ण शास्त्री अकरोत् कामदगिरि पर्वतस्य परिक्रमाम्
- देव गंगा मंदाकिन्याः रामघाटं प्राप्नोत् चित्रकूटस्य महिम्नो व्याख्यानम् चित्रकूटः, 16 जनवरीमासः (हि.स.)।भगवतः श्रीरामस्य तपोभूमिं चित्रकूटं प्राप्तः बागेश्वरधामस्य पीठाधीश्वरः धीरेन्द्रशास्त्रीः देररात्रौ मनोकामनापूरकस्य भगवतः श्रीकामतानाथसर्वक
तपोभूमि चित्रकूट पहुंचे बागेश्वर धाम के पीठाधीश्वर धीरेन्द्र कृष्ण शास्त्री ने किया कामदगिरि पर्वत की परिक्रमा

- देव गंगा मंदाकिन्याः रामघाटं प्राप्नोत् चित्रकूटस्य महिम्नो व्याख्यानम्

चित्रकूटः, 16 जनवरीमासः (हि.स.)।भगवतः श्रीरामस्य तपोभूमिं चित्रकूटं प्राप्तः बागेश्वरधामस्य पीठाधीश्वरः धीरेन्द्रशास्त्रीः देररात्रौ मनोकामनापूरकस्य भगवतः श्रीकामतानाथसर्वकारस्य परिक्रमां कृतवान्। ततः देवगङ्गायाः मन्दाकिन्याः रामघाटं गत्वा देवभूमेः चित्रकूटस्य महिमानं गुणगानं च अकरोत्।

ज्ञातव्यं यत् गुरुवासरे अपराह्णे प्रायः पञ्चवादने बागेश्वरधामस्य पीठाधीश्वरः धीरेन्द्रकृष्णशास्त्रीः धर्मनगरीं चित्रकूटं प्राप्तवान्। विशेषविमानेन देवाङ्गना विमानपत्तनं अवतीर्य कडासुरक्षायाः मध्ये सः दीनदयालशोधसंस्थानाय प्रस्थितवान्।

धीरेन्द्रकृष्णशास्त्रीः स्वगुरुदेवस्य तुलसीपीठाधीश्वरस्य जगद्गुरोः स्वामीरामभद्राचार्यमहाराजस्य जन्मोत्सवकार्यक्रमे सहभागं कर्तुं जयपुरनगरं गतवान् आसीत्। जन्मोत्सवकार्यक्रमे सहभागं कृत्वा सः विशेषविमानेन पुनः चित्रकूटस्य देवाङ्गना विमानपत्तनं प्राप्तवान्। ततः कडासुरक्षायाः मध्ये सः साक्षात् डीआरआई संस्थायाः आरोग्यधामं प्रस्थितवान्। तत्र सायंकाले डीआरआई संस्थायाः राष्ट्रियसंगठनसचिवेन अभयमहाजनेन सह तस्य भेटवार्ता अभवत्।

ततः राष्ट्रऋषेः नानाजीदेशमुखस्य श्रद्धासुमनानि अर्पयित्वा, देररात्रौ स्वभक्तैः सह मनोकामनापूरकस्य भगवतः श्रीकामतानाथसर्वकारस्य दर्शनं कृत्वा कामदगिरिपर्वतस्य पञ्चकोशीपरिक्रमां कृतवान्। तदनन्तरं देवगङ्गायाः मन्दाकिन्याः रामघाटतटे उपविश्य चित्रकूटस्य राजाधिराजस्य स्वामीमत्तगजेन्द्रनाथस्य चरणयोः शिरः नत्वा चित्रकूटमहिमानं गुणगानं च अकरोत्। कामदगिरिपरिक्रमाकाले सः चायापानं अपि कृतवान्।

अनन्तरं सः मार्गेण एव बांदानगरं प्रति प्रस्थितवान्। बांदानगरे शुक्रवासरात् तस्य चतुर्दिवसीया हनुमत्कथायाः भव्यः शुभारम्भः कर्तव्यः अस्ति।

---------------

हिन्दुस्थान समाचार