Enter your Email Address to subscribe to our newsletters

मंडी, 16 जनवरीमासः (हि.स.)।मण्डी–जिल्लायाः चौंतड़ा–प्रथम–शिक्षाखण्डस्य राजकीय–प्राथमिक–पाठशाला–खज इत्यस्य पूर्वा छात्रा महिमा राणा प्रदेशे प्रथमं स्थानं प्राप्य इतिहासं रचितवती। सा स्वर्ण–जयंती–छात्रवृत्ति–परीक्षा २०२५–२६ मध्ये सम्पूर्ण–हिमाचल–प्रदेशे प्रथमं स्थानं प्राप्तवती, येन मण्डी–जिलस्य तथा च स्वक्षेत्रस्य नाम उज्ज्वलितम्। न केवलम् एतत्, अपि तु महिमा राणा अस्मिन्नेव वर्षे जवाहर–नवोदय–विद्यालयस्य तथा सैनिक–विद्यालयस्य प्रवेश–परीक्षां अपि उत्तीर्णवती। तथापि अल्पवयसः कारणात् माता–पितरौ तां गृहात् दूरं न प्रेषयितुं निर्णयं कृतवन्तौ।
अधुना महिमा राणा राजकीय–माध्यमिक–पाठशाला–टिकरी–मशैहरा इत्यत्र षष्ठी–कक्षायां अध्ययनं करोति। स्वर्ण–जयंती–छात्रवृत्ति–योजनानुसारं तस्यै षष्ठी–कक्षायां प्रतिमासं चतुर्सहस्र–रूप्यकाणि, सप्तमी–कक्षायां पञ्चसहस्र–रूप्यकाणि, अष्टमी–कक्षायां तु षट्सहस्र–रूप्यकाणि छात्रवृत्तिरूपेण प्रदास्यन्ते।
गतचतुर्षु वर्षेषु राजकीय–प्राथमिक–पाठशाला–खज इत्यस्य छात्राः निरन्तरं अस्यां प्रतिष्ठितायां छात्रवृत्तौ चयनिताः भवन्ति। विद्यालयस्य शिक्षकः मंगत राम अवदत् यत् अस्मिन् वर्षे विद्यालयस्य छात्रः जतिन ठाकुर सैनिक–विद्यालय–टिहरा इत्यत्र, तथा क्षितिज ठाकुर जवाहर–नवोदय–विद्यालये च चयनितः। महिमा राणाया पिता लाइक चन्दः प्लम्बर–कार्यं करोति, माता रीता देवी तु गृहिणी अस्ति।
शिक्षकः मंगत राम विगताष्टादशवर्षेभ्यः बालकान् नियमित–शिक्षणेन सह नवोदय–विद्यालय, सैनिक–विद्यालय तथा स्वर्ण–जयंती–छात्रवृत्ति–परीक्षाणां कृते विशेष–मार्गदर्शनं ददाति। तस्य परिश्रमस्य फलस्वरूपं अद्यावधि खज–विद्यालयस्य दशाधिकाः छात्राः सैनिक–विद्यालय, जवाहर–नवोदय–विद्यालय तथा स्वर्ण–जयंती–छात्रवृत्ति–परीक्षासु सफलतां प्राप्तवन्तः।
राजकीय–प्राथमिक–शिक्षक–संघस्य चौंतड़ा–प्रथम–अध्यक्षः कपिल राव मंगत रामादृशानां परिश्रमीणां अध्यापकानां शिक्षक–पुरस्कारेण सम्माननस्य समर्थनं कृतवान्। सः अवदत् यत् सरकारी–विद्यालयेषु शिक्षकाः न केवलं पाठ्य–ज्ञानं ददति, अपि तु प्रतियोगी–परीक्षाणां अपि तयारीं कारयन्ति। अतः शिक्षा–विभागेन मंगत रामादृशाः परिश्रमी शिक्षकाः राज्य–स्तरीय–शिक्षक–पुरस्कारेण अवश्यं सम्माननीयाः इति।
---------------
हिन्दुस्थान समाचार