गुरुग्रामस्य बाला इंटर यूनिवर्सिटी एथलेटिक चैंपियनशृंखलायां जितं रजतम्
-3000 मीटर स्टीपलचेज इत्यत्र उत्तमम् प्रदर्शनम् -चंचलो राष्ट्रीय स्तरे वर्धितवान् गुरुग्रामजिल्लायाः मानम् गुरुग्राम, 16 जनवरीमासः (हि.स.)।बेंगलुरुनगरे राजीवगान्धी विश्वविद्यालये आयोजितायां पञ्चाशीति तमायाम् ऑल् इण्डिया इन्टर् यूनिवर्सिटी एथलेटि
गुरुग्राम की खिलाड़ी चंचल को एथलेटिक चैंपियनशिप में रजत पदक से सम्मानित करते अधिकारी।


-3000 मीटर स्टीपलचेज इत्यत्र उत्तमम् प्रदर्शनम्

-चंचलो राष्ट्रीय स्तरे वर्धितवान् गुरुग्रामजिल्लायाः मानम्

गुरुग्राम, 16 जनवरीमासः (हि.स.)।बेंगलुरुनगरे राजीवगान्धी विश्वविद्यालये आयोजितायां पञ्चाशीति तमायाम् ऑल् इण्डिया इन्टर् यूनिवर्सिटी एथलेटिक् च्याम्पियनशिप् प्रतियोगितायां गुरुग्रामनगरस्य दुहिता चञ्चल नाम्नी बीर सिंहस्य पुत्री उत्कृष्टं प्रदर्शनं कृतवती। सा ३००० मीटर् स्टीपलचेज् स्पर्धायां रजतपदकं प्राप्य जिला प्रदेशयोः नाम राष्ट्रियस्तरे उज्ज्वलितवती।

खाण्डसा ग्रामस्य निवासी चञ्चल १२ तः १५ जनवरी पर्यन्तं आयोजितायां अस्यां प्रतियोगितायां स्वीयां प्रतिभां प्रकटयामास। अस्मिन्नेव आयोजने देशस्य विविधविश्वविद्यालयेभ्यः आगताः श्रेष्ठाः महिला धाविकाः सहभागिन्यः आसन्।

चञ्चल नित्यं गुरुग्रामे स्थिते ताऊ देवीलाल क्रीडाङ्गणे अभ्यासं करोति। सतताभ्यासेन तकनीकीसुधारेण सहनशक्तेः विकासेन च सा ३००० मीटर् स्टीपलचेज् स्पर्धायां राष्ट्रियस्तरे रजतपदकं जितवती। प्रशिक्षकः दीपक राठी आशां व्यक्तवान् यत् एवमेव परिश्रमेन अनुशासनेन च चञ्चल भविष्ये अधिकाः महत्त्वपूर्णाः उपलब्धयः प्राप्स्यति।

अस्याः सफलतायाः उपलक्ष्ये विधायकः मुकेश शर्मा अपि चञ्चलां अभिनन्द्य अवदत् यत् ग्रामीणक्षेत्रस्य दुहितुः राष्ट्रियस्तरे पदकविजयः क्षेत्राय गौरवस्य विषयः अस्ति। अनेन अन्ये युवानः क्रीडाक्षेत्रे अग्रे गन्तुं प्रेरिताः भविष्यन्ति।

उपक्रीडानिदेशकः गिरिराज यादव उपक्रीडानिदेशकः रामपालः जिला क्रीडा अधिकारी आरती कोहली सेवानिवृत्तः डीएसओ राज यादवश्च ताम् हार्दिकाभिनन्दनं कृत्वा अवदन् यत् एषा सफलता जिल्लायाः उदीयमानक्रीडकानां कृते प्रेरणास्रोतः अस्ति। सर्वे अधिकारिणः चञ्चलस्य उज्ज्वलस्य क्रीडाभविष्यस्य कामनां कृतवन्तः।

हिन्दुस्थान समाचार