Enter your Email Address to subscribe to our newsletters

जांजगीर–चांपा–जनपदः, १६ जनवरीमासः (हि.स.)।
प्रधानमन्त्री–आवास–योजना–ग्रामीणत: पुनः एतत् सिद्धीकृतं यत् एषा योजना केवलं गृह–निर्माणाय न, अपि तु सम्मानयुक्त–जीवन–प्रदानाय अपि अस्ति। अकलतरा–विकासखण्डस्य अकलतरी–ग्राम–पञ्चायते निवसन्त्या लाभार्थिन्या: श्रीमत्याः चन्द्रिकाबाई इत्यस्या: बहुवर्षीयः स्वप्नः अधुना साकारः अभवत्।
आर्थिक–दुर्बल–परिस्थितौ जीवनं यापयन्ती श्रीमती चन्द्रिकाबाई पूर्वं खपर–टीन–छद–युक्ते अपक्वे गृहे वसति स्म। वर्षाकाले तस्या महती कष्ट–स्थितिः भवति स्म। सीमित–आय-कारणेन सा न नूतन–गृहं निर्मातुं शक्नोति स्म, न च पुरातन–छप्परं समृयक् कर्तुं समर्था आसीत्।
शासनद्वारा २०२४–२५ वर्षे प्रधानमन्त्री–आवास–योजना–ग्रामीणस्य अन्तर्गतं श्रीमत्याः चन्द्रिकाबाई-इत्यस्या: आवासः स्वीकृतः। १.२० लक्ष–रूप्यकाणां स्वीकृता राशि तस्याः धनागारे विनियोजिता, ततः सा नियमानुसारं गृह–निर्माण–कार्यं समापितवती।
२०२५–२६ वर्षे तस्याः पक्व–गृहं सिद्धं जातम्। अद्य सा सुरक्षिते, दृढे, सम्मानयुक्ते च पक्वे गृहे सुखेन जीवनं यापयति। महात्मा–गान्धी–नरेगा–योजनातः तस्यै श्रमिक–धनराशिः अपि प्राप्ता, येन गृह–निर्माणे साहाय्यम् अभवत्। सा उज्ज्वला–योजनायाः अन्तर्गतं एल.पी.जी.–सम्बन्धस्य तथा स्वच्छ–भारत–मिशनस्य अन्तर्गतं जलवाहित–शौचालयस्य अपि लाभार्थिनी अस्ति।
श्रीमती चन्द्रिकाबाई अवदत्—“प्रधानमन्त्री–आवास–योजना–ग्रामीणः मम सदृश–दरिद्राणां कृते वरदानम् अस्ति। पक्व–गृहे निवासः मम कृते स्वप्नवत् आसीत्, य: शासनस्य अस्याः योजनायाः माध्यमेन पूर्णः जातः।”
एषा कथा न केवलं एकस्य परिवारस्य सुखसमृद्धेः प्रतीका, अपि तु एतत् अपि दर्शयति यत् योजनानां सम्यक् क्रियान्वयनं कथम् आवश्यकताग्रस्तानां जीवने स्थायि–परिवर्तनं नयति।
हिन्दुस्थान समाचार / Dheeraj Maithani