Enter your Email Address to subscribe to our newsletters

सिलीगुड़ी, 16 जनवरीमासः (हि. स.)।बङ्गालस्य समग्रविकासं दृष्ट्वा राज्याय रेलमन्त्रालयेन प्रायः त्रयोदशसहस्रकोटिरूप्यकाणाम् आवंटनं कृतम् अस्ति। अपि च अमृतभारतयोजनाया अन्तर्गतं राज्यस्य अनेकानि रेलस्थानकानि अन्तरराष्ट्रीयस्तरीयतया विकसितानि क्रियमाणानि सन्ति। एतेन बङ्गालस्य सामाजिकः आर्थिकश्च विकासः नूतनां गतिं प्राप्स्यति। एताः बाताः शुक्रवासरे सिलीगुडीनगरं प्राप्तः रेलमन्त्री अश्विनीवैष्णवः अवदत्।
शुक्रवासरे न्यू जलपाईगुडी रेलस्थानकस्य निरीक्षणानन्तरं रेलमन्त्री पत्रकारैः सह संवादे एतां सूचनां दत्तवान्। अस्मिन् दिने रेलमन्त्री दिल्ली नगरीतः विमानमार्गेण बागडोगरा विमानस्थानकं प्राप्तवान्। ततः सः स्थलमार्गेण न्यू जलपाईगुडी रेलस्थानकं गतः तथा अमृतभारतपरियोजनाया अन्तर्गतं प्रवर्तमानानां विकासकार्याणां निरीक्षणं कृतवान्।
न्यू जलपाईगुडी रेलस्थानकं प्राप्ते रेलमन्त्रिणि जलपाईगुडीस्य सांसदः जयन्तरायः, दार्जिलिङ्गस्य सांसदः राजूबिष्टः, डाबग्रामफुलबाड्याः विधायिका शिखाचटर्जी तथा रेलविभागस्य वरिष्ठाधिकारिणश्च तं स्वागतवन्तः।
निरीक्षणानन्तरं पत्रकारैः सह संवादे रेलमन्त्री अश्विनीवैष्णवः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी मालदानगरात् द्वादशाधिकानां नूतनानां रेलसेवानां शुभारम्भं करिष्यति। एतत् बङ्गालाय प्रधानमन्त्रीना प्रदत्तं विशेषं उपहारम् अस्ति। राज्ये अमृतभारतपरियोजनाया अन्तर्गतं बहूनि विकासकार्याणि प्रवर्तन्ते। न्यू जलपाईगुडी रेलस्थानकं अन्तरराष्ट्रीयमानकानुसारं विकसितं क्रियमाणं अस्ति तथा कार्यं सम्यक् उन्नतावस्थां प्राप्तम् अस्ति।
हिन्दुस्थान समाचार