राष्ट्रीय–बालिका–दिवसे “सेल्फी–विद्–डॉटर” प्रतियोगितायाः आयोजनम्
जांजगीर–चांपा–जनपद:, १६ जनवरीमासः (हि.स.)। राष्ट्रीय–बालिका–दिवसस्य अवसरे बालिकानां सम्मानं, सशक्तीकरणं तथा पारिवारिक–मूल्यानां संवर्धनं कर्तुम् जनपद–प्रशासनद्वारा “सेल्फी–विद–डॉटर” नाम्नी प्रतियोगिता आयोजिता। २४ जनवरीमासे प्रातः ११ वादने जांजगीर–च
SELFIE WITH DAUGHTER


जांजगीर–चांपा–जनपद:, १६ जनवरीमासः (हि.स.)। राष्ट्रीय–बालिका–दिवसस्य अवसरे बालिकानां सम्मानं, सशक्तीकरणं तथा पारिवारिक–मूल्यानां संवर्धनं कर्तुम् जनपद–प्रशासनद्वारा “सेल्फी–विद–डॉटर” नाम्नी प्रतियोगिता आयोजिता। २४ जनवरीमासे प्रातः ११ वादने जांजगीर–चांपा–जनपदस्य जनपद–सभागारे कार्यक्रमस्य आयोजनं भविष्यति। चयनितेषु प्रतिभागिषु प्रथम–द्वितीय–तृतीय–स्थानं प्राप्तवन्तः २४ जनवरीमासे २०२६ तमे वर्षे राष्ट्रीय–बालिका–दिवसस्य अवसरे सम्मानिताः भविष्यन्ति।

प्रतियोगितायाः अन्तर्गतं प्रतिभागिन्यः स्व–पुत्र्या सह आत्मचित्रम् (सेल्फी) गृहीत्वा सामाजिक–माध्यम–मञ्चेषु प्रकाशयितुं शक्नुवन्ति। प्रतिभागिन्यः २२ जनवरीमासं २०२६ पर्यन्तं स्व–सेल्फी सामाजिक–माध्यमेषु अपलोड् कर्तुं शक्नुवन्ति।सेल्फी–प्रकाशनकाले #selfiewithdaughter इति हैशटैग-इत्यस्य उपयोगः अनिवार्यः अस्ति। तदपि जनपद–प्रशासनस्य सामाजिक–माध्यम–हस्तकानि —फेसबुक (@janjgirdist),एक्स्/ट्विटर (@janjgirdist)अथवा इन्स्टाग्राम (@janjgirdist)इति टैग् करणीयानि सन्ति।प्राप्तासु प्रविष्टिषु श्रेष्ठं आत्मचित्रं (सेल्फी) चयनितं भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता