Enter your Email Address to subscribe to our newsletters

शिमला, 16 जनवरीमासः (हि.स.)।
हिमाचलप्रदेशे विशेषावश्यकतान्वितानां बालकानां कृते शुक्रवारो विशेषः अभवत्। शिक्षामन्त्री रोहितठाकुरः हिमाचलप्रदेशविधानसभापरिसरात् षण्णवतिं (९६) विशेषावश्यकतान्वितान् बालकान् अनुभवपर्यटनाय प्रेषितवान्। एते बालकाः प्रथमवारं विधानसभां प्राप्तवन्तः, यत्र ते सभां समीपतः अवलोकितवन्तः तथा तस्याः कार्यप्रणालीं सम्यक् अवगच्छन्ति स्म। अनेकानां बालकानां कृते अयं अनुभवः भावपूर्णः स्मरणीयश्च अभवत्।
विधानसभासदने बालकान् सम्बोधयन् शिक्षामन्त्री अवदत् यत् एते बालकाः देशस्य भविष्यं सन्ति, तेषां उन्नत्यर्थं समानावसरप्रदानं सरकारस्य कर्तव्यम् अस्ति। सरकारीविद्यालयेषु अध्ययनरतानां एतेषां बालकानां कृते अयं दिवसः आजीवनं स्मरणीयः भविष्यति इति सः अवदत्। बालकाः विधायकानां आसनेषु उपविश्य सदनस्य कार्यवाहीं दृष्टवन्तः, लोकतन्त्रस्य कार्यप्रणालीं च अवगन्तुं प्रयत्नं कृतवन्तः।
रोहितठाकुरः अवदत् यत् प्रदेशसरकारः विशेषावश्यकतान्वितानां बालकानां शिक्षायै सशक्तिकरणाय च गम्भीरतया प्रयत्नं करोति। एतदर्थं विद्यालयेषु विशेषशिक्षकाः नियुक्ताः सन्ति, आगामिकाले तेषां संख्या अपि वर्धयिष्यते। बालकानां आवश्यकतानुसारं अध्ययनकार्ये नूतनप्रौद्योगिकीणां प्रयोगः क्रियते, येन अध्ययनप्रक्रिया सुकरा प्रभाविणी च भवेत्।
शिक्षामन्त्री अवदत् यत् हिमाचलप्रदेशविधानसभा लोकतान्त्रिकमूल्यानां महत्त्वपूर्णं केन्द्रम् अस्ति। अत्र प्रदेशस्य विकाससम्बद्धाः जनसाधारणसम्बद्धाः विषयाश्च चर्च्यन्ते। अतः बालकानां विधानसभायाः कार्यप्रणाल्या परिचयः आवश्यकः, येन ते लोकतन्त्रं अवगच्छेयुः भविष्ये च जागरूकाः नागरिकाः भवेयुः। आगामिषु कालेषु अपि एवंविधानि शैक्षणिकपर्यटनानि आयोजयिष्यन्ते इति सः अवदत्।
समग्रशिक्षानिदेशकः राजेशशर्मा अवदत् यत् एषा अनुभवयात्रा बालकानां नूतनस्थानैः नूतनानुभवैः च संयोजनार्थं आयोजिताऽभवत्। अस्य कार्यक्रमस्य अन्तर्गतं बालकाः चण्डीगढं अमृतसरं च वाघासीमां गमिष्यन्ति। वाघासीमायां रिट्रीट्-समारोहः बालकानां कृते विशेषं आकर्षणं भविष्यति। समग्रशिक्षाकार्यक्रमस्य माध्यमेन विशेषावश्यकतान्वितान् बालकान् मुख्यधारायां संयोजयितुं निरन्तरं प्रयासाः क्रियन्ते इति सः अवदत्।
राजेशशर्मा अपि अवदत् यत् प्रदेशस्य सरकारीविद्यालयेषु अन्तर्जालसुविधा प्रदीयते, येन बालकाः आधुनिकप्रौद्योगिक्याः लाभं प्राप्नुयुः। विशेषशिक्षकानाम् अपि नूतनप्रौद्योगिकीषु प्रशिक्षणं दीयते, येन बालकानां अध्ययनसम्बद्धाः कठिनताः न्यूनाः भवेयुः।
अस्मिन् अवसरॆ विधानसभाया उपसचिवः जितेन्द्रसिंहकंवरः बालकान् हिमाचलप्रदेशविधानसभायाः इतिहासं कार्यप्रणालीं च अवगतवान्। बालकाः उत्साहपूर्वकं प्रश्नान् अपृच्छन्, सदनस्य कार्यव्यवहारं च अवगच्छन्ति स्म।
कार्यक्रमानन्तरं षट्पञ्चाशदधिकशतसदस्यानां (१५६) दलं शिमलातः प्रस्थितम्। अस्मिन् दले षण्णवतिः (९६) विशेषावश्यकतान्विताः बालकाः, विशेषशिक्षकाः, समावेशीशिक्षाधिकारीणः अन्ये सहायकाश्च अन्तर्भूताः सन्ति। बालकाः प्रथमं चण्डीगढं गमिष्यन्ति, यत्र ते छतबीड् प्राणिसङ्ग्रहालयं द्रक्ष्यन्ति। ततः अमृतसरं गत्वा वाघासीमायां रिट्रीट्-समारोहं द्रक्ष्यन्ति। अष्टादशजनवरीदिने स्वर्णमन्दिरदर्शनानन्तरं ते स्वानुभवैः सह शिमलां प्रत्यागमिष्यन्ति।
---------------
हिन्दुस्थान समाचार