उत्तराखंडे सेबफलस्य अत्यतं सघनं बागवानिनिमित्तं वर्धनं, मुख्य सचिवेन दत्ताः महत्वपूर्णाः निर्देशाः
देहरादूनम्, 16 जनवरीमासः (हि.स.)।प्रदेशे सेबफलस्य अतिसघन उद्यानिकीं प्रोत्साहयितुं राज्यसर्वकारेण प्रयत्नाः तीव्रतया प्रवर्धिताः सन्ति। मुख्यसचिव आनन्दबर्द्धनस्य अध्यक्षतायां शुक्रवासरे सचिवालये सम्पन्नायां संगोष्ठ्यां सेबफलस्य सह कीवीफलस्य तथा ड्
मुख्य सचिव आनन्द बर्द्धन।


देहरादूनम्, 16 जनवरीमासः (हि.स.)।प्रदेशे सेबफलस्य अतिसघन उद्यानिकीं प्रोत्साहयितुं राज्यसर्वकारेण प्रयत्नाः तीव्रतया प्रवर्धिताः सन्ति। मुख्यसचिव आनन्दबर्द्धनस्य अध्यक्षतायां शुक्रवासरे सचिवालये सम्पन्नायां संगोष्ठ्यां सेबफलस्य सह कीवीफलस्य तथा ड्रैगनफलस्य उत्पादनवृद्धेः विषये विस्तृतः विचारविमर्शः कृतः।

तस्यां गोष्ठ्यां मुख्यसचिवेन अतिसघन (हाई डेंसिटी) सेबोद्यानानां प्रोत्साहनं कर्तुं, कृषकान् क्लस्टरआधारितकृष्यां संयोजयितुं तथा प्रदेशस्य उत्पादनक्षमतायाः आकलनं कर्तुं निर्देशाः दत्ताः। सः दीर्घकालिकानि उत्पादनलक्ष्याणि निर्धारयन् शीतभण्डारसुविधानां विस्ताराय तथा नर्सरीणां उन्नयनाय अपि विशेषं बलं दत्तवान्, येन कृषकाणां आयवृद्धिः स्यात्।

मुख्यसचिवेन राष्ट्रीयस्तरे अन्यराज्यानां तुलनायां उत्तराखण्डस्य उत्पादनक्षमतायाः स्थितिः समीक्षिता। तेन उक्तं यत् “सेबस्य अतिसघन उद्यानिकी योजना” इत्यस्य अन्तर्गतं नवीनतमप्रजातीनां सेबोद्यानानां विशालस्तरे स्थापना अत्यावश्यकी अस्ति। कृषकान् क्लस्टरआधारितदृष्टिकोणं स्वीकरोतुं प्रेरयितुं अपि तेन बलं दत्तम्। अस्याः योजनायाः उद्देश्यं राज्ये सेबोत्पादनस्य वर्धनं तथा कृषकाणां आयवृद्धिः एव अस्ति।

तस्य कथनानुसारं राज्ये सेबोत्पादनक्षेत्रस्य विस्ताराय व्यापकाः सम्भावनाः सन्ति, याः सेबस्य सह कीवीफलस्य तथा ड्रैगनफलस्य उत्पादनाय अपि नूतनां दिशां प्रदास्यन्ति। एतदर्थं अधिकारिणः सेबफलस्य सहितं अन्यफसलीनां उत्पादनक्षमतायाः आकलनं कर्तुं निर्देशिताः। अपि च जनपदवारं उत्पादनक्षमतानुसारं 2030, 2040 तथा 2050 वर्षाणां कृते लक्ष्यनिर्धारणं कृत्वा योजनाः व्यवहाररूपेण कार्यान्वयितुं आदेशः दत्तः।

मुख्यसचिवेन उत्तरकाशीजनपदे हर्षिलस्थित झाले शीतभण्डारस्य आदर्शेन प्रदेशस्य अन्येषु क्षेत्रेषु अपि शीतभण्डाराणां विकासः कर्तुं निर्देशः दत्तः, येन कृषकाः ऋतुबाह्यकाले उत्पादान् विक्रय्य अधिकं लाभं प्राप्नुयुः। तेन अपि उक्तं यत् प्रदेशस्य अनेकेषु क्षेत्रेषु अद्यापि पुरातनाः तथा अल्पोत्पादनक्षमतायुक्ताः सेबप्रजातयः कृष्यन्ते, ताः अतिसघन सेबपादपैः प्रतिस्थापनीयाः सन्ति।

अस्य कृते नर्सरीणां उन्नयनं, विशालस्तरे अतिसघन सेबपौधोत्पादनं तथा कृषकैः सह निरन्तरसंवादः आवश्यकः इति बलं दत्तम्। योजनायाः प्रभावी कार्यान्वयनाय पूर्णकालिकतांत्रिकसहयोगार्थं परियोजनाप्रबन्धनएककस्य (पीएमयू) गठनं कर्तुं तथा सततं पर्यवेक्षणं सुनिश्चितं कर्तुं अपि निर्देशाः प्रदत्ताः।

---

हिन्दुस्थान समाचार