मकर संक्रांति पर्वणो द्वितीय दिनेऽपि श्री काशी विश्वनाथस्य मंडपे आपन्नाः श्रद्धालवः
—ब्रह्म मुहूर्ते मंगला आरत्याः अनन्तरेण एव अनवरतं दर्शनं पूजनं च वाराणसी,16 जनवरीमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिकनगरे वाराणसी (काशी) मध्ये मकरसंक्रान्तिपर्वणः द्वितीये दिने शुक्रवासरे अपि बाबा विश्वनाथस्य दरबारे दर्शनपूजनार्थं श्रद्धालूनां म
बाबा के दरबार में उमड़ी भीड़


बाबा विश्वनाथ के दरबार में श्रद्धालु


—ब्रह्म मुहूर्ते मंगला आरत्याः अनन्तरेण एव अनवरतं दर्शनं पूजनं च

वाराणसी,16 जनवरीमासः (हि.स.)।

उत्तरप्रदेशस्य धार्मिकनगरे वाराणसी (काशी) मध्ये मकरसंक्रान्तिपर्वणः द्वितीये दिने शुक्रवासरे अपि बाबा विश्वनाथस्य दरबारे दर्शनपूजनार्थं श्रद्धालूनां महती भीड् आगता आसीत्। दशाश्वमेधघाटे तथा समीपस्थेषु अन्येषु घाटेषु पवित्रायां गङ्गायां श्रद्धया स्नानं कृत्वा भक्ताः बाबा विश्वनाथस्य दर्शनपूजनार्थं पङ्क्तिबद्धाः अभवन्। मन्दिरे ब्रह्ममुहूर्ते मङ्गलारत्याः अनन्तरमेव दर्शनपूजनस्य अविरतं क्रमः आरब्धः।

एतस्मात् पूर्वं मकरसंक्रान्तिपर्वणि बाबा विश्वनाथस्य पावनस्य ज्योतिर्लिङ्गस्य विशेषरात्रिकालीनशृङ्गारानन्तरं भोगारत्यां चूड़ामटरयोः भोगः अर्पितः। बाबा विश्वनाथस्य अलौकिकं शृङ्गारं दृष्ट्वा श्रद्धालवः भावविभोराः अभवन्। मन्दिरन्यासस्य अनुसारं पर्वपरम्परानुसारं श्रीविश्वनाथाय चूड़ामटरयोः विशेषभोगः समर्पितः। ततः विधिविधानपूर्वकं भोगारती सम्पन्ना, यस्यां बहवः श्रद्धालवः सहभागीभूताः। मन्दिरपरिसरे भक्तेः श्रद्धायाः उत्साहस्य च वातावरणं विराजितम्।

पूर्वं मध्याह्नभोगारत्यां बाबा विश्वनाथाय खिचड़ी, चूड़ा मटर, पापड़, अचार, भाजा, तिलकुट, गजक, तिललड्डूकादीनां भोगः अर्पितः, येन परम्परायाः निर्वाहः कृतः। तिलनिर्मितानि विशेषमिष्टान्नानि अपि बाबायै समर्पितानि। मन्दिरस्य अर्चकैः मध्याह्नभोगारत्यां एतानि सर्वाणि विधानानि सम्यक् अनुष्ठितानि। बाबा विश्वनाथस्य भोगार्थं एकादशकुन्तलपरिमिता खिचड़ी सिद्धा कृता। भोगारत्याः अनन्तरं सा भक्तेभ्यः प्रसादरूपेण वितरिता।

श्रीकाशीविश्वनाथमन्दिरस्य पूर्वमहन्तस्य स्वर्गीयकुलपतितिवारीस्य टेढ़ीनीमस्थे आवासे बाबा विश्वनाथस्य रजतचलप्रतिमायाः समक्षं तिलनिर्मितानि मिष्टान्नानि महन्तपुत्रेण डॉ. वाचस्पतितिवारिणा अर्पितानि।

मकरसंक्रान्तिपर्वणि केदारघाटस्थिते गौरीकेदारेश्वरमन्दिरे बाबा महादेवस्य प्राकट्योत्सवः आचरितः। ब्रह्ममुहूर्ते मङ्गलारत्याः पश्चात् गौरीकेदारेश्वरस्य बिल्वार्चनं कृतम्। एतदनुष्ठानं एकविंशतिः वैदिकैः सम्पूर्णीकृतम्। अस्मिन् अवसरः गौरीकेदारेश्वराय एकविंशतिमनपरिमिता खिचड़ी भोगरूपेण अर्पिता। प्रसादरूपेण खिचड़्याः वितरणं अपि कृतम्। धार्मिकविश्वासः अस्ति यत् मकरसंक्रान्तिदिने एव गौरीकेदारेश्वरमहादेवः खिचड़्यां प्रकटितवान्।

हिन्दुस्थान समाचार