Enter your Email Address to subscribe to our newsletters



इण्डिया–फूड्–एक्स्पो – निवेश:, नवाचारस्य रोजगारस्य च नव–अवसरं उद्घाटयिष्यति
त्रिदिवसीयः युवा–उद्यमी इण्डिया–एक्स्पो–२०२६ आयोज्यते
लखनऊनगरम्, १६ जनवरीमासः (हि.स.)। उत्तर–प्रदेशस्य उप–मुख्यमन्त्री केशव–प्रसाद–मौर्यः शुक्रवासरे उक्तवान् यत् उत्तर–प्रदेशं राष्ट्रस्य खाद्य–प्रसंस्करण–केन्द्रम् कुर्वीत। स: युवा–उद्यमिनः इण्डिया–फूड्–एक्स्पो–२०२६ इत्यस्मात् लाभं गृह्यन्ताम् इति उद्घोषयत्। उत्तर–प्रदेशस्य खाद्य–प्रसंस्करण–नीतिः राष्ट्रस्य श्रेष्ठा नीति: अस्ति। विकसित–भारतस्य प्रधानमन्त्रिण: दृष्टिं कथंचिदपि पूरणीयम् अस्ति। अस्य कृते सर्वेऽपि संकल्पबद्धा: भूत्वा कर्म कर्तव्यम्।
केशव–प्रसाद–मौर्यः अद्य रिगेलिया–ग्रीन्स (निकटे १०९०–चतुष्पथ:) गोमती–नगरे त्रिदिवसीयः इण्डिया–फूड–एक्स्पो–२०२६ तथा संगोष्ठ्यां मुख्यातिथित्वेन सम्बोधितवान्। तेन पूर्वमेव एक्स्पो–प्रदर्शिनी उद्घाटिता, तस्य अवलोकनं च कृतम्। अस्मिन् अवसरे उप–मुख्यमन्त्री–मौर्येण औद्योगिक–निर्देशिकायाः विमोचनं अपि कृतम्। संगोष्ठ्यां पी–एम–एफ–एम–ई योजनायाः उत्कृष्ट–कार्येषु डी–आर–पी, धनागारिण:, उद्यमिनः तथा लाभार्थिनः प्रशस्ति–पत्रैः सम्मानिताः। पञ्च उद्यमिनः एल–ओ–सी तथा अनुदान–प्रतीक–रुप्यकपत्रै: सम्मानिताः।
उप–मुख्यमन्त्री मौर्यः उक्तवान् यत् राष्ट्रस्य अर्थव्यवस्था जगति अतिशीघ्रं विकसितं भवति। उत्पादनम्, तन्त्रज्ञानम्, ब्राण्डिङ्ग च उपभोक्तृभिः कृषकाणाम् आयः वृद्धिं कर्तुं आवश्यकम्। एतेन भारतदेश: जगतः प्रथम–स्थानस्य अर्थव्यवस्था भूयात्।
उत्तर–प्रदेशस्य विधि–व्यवस्था दृढा अस्ति। प्रदेशे खाद्य–प्रसंस्करण–नीतौ स्त्री–उद्यमिन्यः विशेष–सुविधाः प्रदत्ताः। स्त्री–उद्यमिन्यः सौर–ऊर्जा–संयोजनस्य माध्यमेन उद्योगारम्भे नवतिप्रतिशतम् ९०% अनुदानम् अपि प्रदत्तम्। एषः एक्स्पो विकसित–भारत–विकसित–उत्तर–प्रदेशस्य संकल्पस्य पूर्त्यै महत्वपूर्णः प्रयत्न: अस्ति।
खाद्य–प्रसंस्करण–तन्त्रज्ञानम् तथा खाद्य–कृषि–उत्पाद–उद्योगस्य विकासाय इण्डिया–फूड–एक्स्पो एवं संगोष्ठी (दशमं संस्करणम्) १६–१८ फरवरी पर्यन्तं आयोज्यते।
अस्यां प्रदर्शिन्यां खाद्य–प्रसंस्करणम्, यन्त्र–तन्त्रज्ञानम्, उत्पादनानि च त्रिदिवसीया प्रदर्शिन्यां प्रदर्श्यन्ते। खाद्य–प्रसंस्करण–उद्योगस्य स्थापनसिद्ध्यर्थम् विशेषज्ञैः सूचना प्रदत्ता भविष्यति। गोष्ठीम् अपरमुख्यसचिवः उद्यान एवं खाद्य–प्रसंस्करण विभागस्य बी.एल.–मीना, इण्डियन–इण्डस्ट्रीज्–एसोसिएशन-इत्यस्य राष्ट्रिय–अध्यक्षः दिनेश–गोयल: तथा अन्ये उद्यमिनः सम्बोधितवन्तः। अस्मिन् अवसरे विधायकः नीरज–बोरा, खाद्य–प्रसंस्करण–विभागस्य निदेशकः टी.के.–शीबू, उद्यमिनः सन्दीप–बंसल:, अवधेश–अग्रवाल:, चेतनदेव–भल्ला, सूर्यप्रकाशः, विकास–खन्ना, प्रशान्त–भाटिया च प्रमुख–रूपेण उपस्थिताः आसन्।
हिन्दुस्थान समाचार / Dheeraj Maithani