Enter your Email Address to subscribe to our newsletters

- विस-अध्यक्षः हरविन्द्र कल्याणः अकरोत् कार्यक्रमस्य शुभारंभम्
चंडीगढ़म्, 16 जनवरीमासः(हि.स.)।हरियाणा–विधानसभायां शुक्रवासरे द्विदिवसीयस्य ‘हरियाणा–युवा–संवाद’ इत्यस्य द्वितीयः संस्करणः आरब्धः। अस्य कार्यक्रमस्य शुभारम्भं विधानसभाध्यक्षः हरविन्द्र कल्याणः कृतवान्। अस्मिन् कार्यक्रमे त्रयोदश राज्येभ्यः पञ्चषष्टिः प्रतिभागिनः सहभागं कुर्वन्ति।
कार्यक्रमं सम्बोधयन् विधानसभाध्यक्षः हरविन्द्र कल्याणः अवदत् यत् भारतः दीर्घकालं दास्यस्य कठिनं कालखण्डं सहनं कृतवान्, यस्मिन् काले अस्माकं समृद्धां संस्कृतिं मूल्यानि च हानिं प्रापयितुं प्रयासः कृतः। तथापि भारतः अद्य विश्वस्य सर्वाधिकं विशालं लोकतन्त्रं अस्ति तथा च निरन्तरं विकास–मार्गे अग्रसरः वर्तते। सः अवदत् यत् अत्र नानाविधाः भाषाः, परम्पराः, संस्कृतयः च सन्ति, किन्तु एतेषां सर्वेषां मध्ये एकं सहकारिलक्ष्यं वर्तते।
कल्याणः युवान् अवदत् यत् अद्य ते तस्मिन्नेव विधानसभा–भवने उपविष्टाः सन्ति, यतः प्रदेशस्य अनेके दिग्गजाः विधायकाः नेतारः च विधि–निर्माणात् आरभ्य हरियाणा–प्रदेशस्य सर्वाङ्गीण–विकासपर्यन्तं महत्त्वपूर्णां भूमिकां निर्वहन्ति स्म। सः अवदत् यत् लोकतन्त्रे विचार–वैविध्यं स्वाभाविकं भवति, किन्तु युवाभिः सकारात्मक–चिन्तनेन सह समाधान–दिशायां अग्रे गन्तव्यम्, येन समाजः देशश्च नवीनां दिशां प्राप्नुयात्।
विधानसभाध्यक्षः अपि अवदत् यत् यदि देशः अग्रे नेतुं इच्छ्यते, तर्हि महिलानां सामाजिकतः, राजनीतिकतः, आर्थिकतः च सशक्तीकरणं अनिवार्यम्। दिल्लीनगरे आयोजिते कॉमनवेल्थ–पार्लियामेण्ट–सम्मेलने स्वानुभवं साझीकुर्वन् हरविन्द्र कल्याणः अवदत् यत् तत्र बहवः देशीयाः स्पीकराः एतद् दृष्ट्वा विस्मिताः अभवन् यत् भारतः शताधिक–भाषाभिः, नानारिवाजैः, सांस्कृतिक–वैविध्येन च युक्तः सन् अपि इत्थं दृढतया अग्रे वर्तते।
अस्मिन् कार्यक्रमे विधायकः पूजा चौधरी, हरियाणा–विधानसभा–अध्यक्षस्य सल्लाहकारः राम नारायण यादवः, हरियाणा–युवा–संवादस्य सह–संस्थापकौ जय सैनी ईशा कपूरा च युवान् सम्बोध्य स्वाधीनता–आन्दोलनम्, संविधान–सभाया अनुभवाः, लोकतान्त्रिक–मूल्यानि, नेतृत्व–क्षमता तथा युवानां भूमिका इत्यादिषु विचारान् प्रस्तुतवन्तः।
कार्यक्रमस्य द्वितीय–चरणे प्रश्नकालः आयोजितः। तदनन्तरं द्वौ विशेष–सत्रौ सम्पन्नौ। प्रथम–सत्रे ‘हरियाणायाः सतत–विकासः औद्योगिक–विस्तारः, पर्यावरण–संरक्षणं तथा प्राकृतिक–संसाधनानां सन्तुलित–उपयोगः’ इति विषये गहनं विमर्शं कृतम्।
---------------
हिन्दुस्थान समाचार