37.39 कोटिमितेन व्ययेन पटनायाम् आईपीएस मेससंबद्धस्य आधुनिक भवनस्य भविष्यति निर्माणम् - सम्राट चौधरी
पटना, 17 जनवरीमासः (हि.स.)। बिहारस्य उपमुख्यमंत्री सम्राट चौधरी उक्तवान् यत् पटना जनपदस्य अन्तर्गतं स्थितस्य पुलिस ऑफिसर्स मेस अर्थात् आईपीएस मेसस्य नवीन भवननिर्माणाय स्वीकृतिः प्रदत्ता अस्ति। शनिवासरे उपमुख्यमंत्रीणोक्तं यत् आईपीएस मेसस्य भवनं
उप मुख्यमंत्री सम्राट चौधरी


पटना, 17 जनवरीमासः (हि.स.)।

बिहारस्य उपमुख्यमंत्री सम्राट चौधरी उक्तवान् यत् पटना जनपदस्य अन्तर्गतं स्थितस्य पुलिस ऑफिसर्स मेस अर्थात् आईपीएस मेसस्य नवीन भवननिर्माणाय स्वीकृतिः प्रदत्ता अस्ति।

शनिवासरे उपमुख्यमंत्रीणोक्तं यत् आईपीएस मेसस्य भवनं बी जी चार इति संरचनायां निर्मीयते। तस्मिन् भवने फर्नीचरं च अन्यानि च आवश्यकानि आधारभूतसुविधानि समाविष्टानि भविष्यन्ति। अस्य परियोजनायाः कुला अनुमानिता व्यय राशि सप्तत्रिंशत् कोटि उनचत्वारिंशत् लक्ष त्रयोदश सहस्र चतुश्शत रुप्यकाणि भवन्ति।

तेन उक्तं यत् बिहारराज्ये नीतीशकुमारस्य नेतृत्वे स्थितस्य राष्ट्रीय जनतांत्रिक गठबन्धन सरकारस्य उद्देश्यं पुलिस अधिकारिणां कर्मिणां च कृते आधुनिकां सुरक्षितां सुविधायुक्तां च आधारभूतसंरचनां विकासयितुं अस्ति।

अल्पकालपूर्वमेव पूर्वी चम्पारण जनपदे पुलिस अधीक्षकस्य नवीन कार्यालयभवनस्य रोहतास जनपदस्य डिहरी पुलिस केन्द्रे रक्षित कार्यालयस्य शस्त्रागार भवनस्य च तथा लखीसराय पुलिस केन्द्रे महिला पुलिस कर्मिणां कृते द्विशतशय्यायुक्तस्य आधुनिक बैरकस्य निर्माणाय स्वीकृतिः प्रदत्ता आसीत्। अधुना च पटना जनपदस्य अन्तर्गतं आईपीएस मेसस्य आधुनिक भवननिर्माणाय अपि स्वीकृतिः प्रदत्ता अस्ति।

उपमुख्यमन्त्री उक्तवान् यत् एतस्मात् भवननिर्माणात् पुलिस अधिकारिणां कृते उत्तमा कार्यसहनिवास सुविधा उपलब्धा भविष्यति। सरकारस्य लक्ष्यं अस्ति यत् पुलिस बलं उत्तमसुविधानि प्रदाय कानूनव्यवस्थां अधिकं सुदृढां कर्तुं शक्येत।

---------------

हिन्दुस्थान समाचार