कैबिनेटमंत्री सतपाल महाराजः 26 कोटिरूप्यकाणां 18 विकास योजनानां उपहारं दत्तवान्
-सतपाल महाराजो राजकीय इंटर कॉलेज किमगड़्यां विज्ञान विषयः शुभारप्स्यते इति घोषणा कृता। देहरादूनम्, 17 जनवरीमासः (हि.स.)। कैबिनेट मन्त्री सतपाल महाराजः पौड़ी जनपदस्य राजकीय अन्तर महाविद्यालये किमगड़ी (विकासखण्डः पोखड़ा) आयोजिते वार्षिकोत्सवे सहभाग
कार्यक्रम का शुभारंभ करते कैबिनेट मंत्री सतपाल महाराज।


-सतपाल महाराजो राजकीय इंटर कॉलेज किमगड़्यां विज्ञान विषयः शुभारप्स्यते इति घोषणा कृता।

देहरादूनम्, 17 जनवरीमासः (हि.स.)।

कैबिनेट मन्त्री सतपाल महाराजः पौड़ी जनपदस्य राजकीय अन्तर महाविद्यालये किमगड़ी (विकासखण्डः पोखड़ा) आयोजिते वार्षिकोत्सवे सहभागं कृत्वा चौबट्टाखाल विधानसभाक्षेत्राय अष्टादश विकासयोजनानां रूपेण षड्विंशति कोटि रूप्यकाणां सौगातं प्रदत्तवान्। तेन सहैव राजकीय अन्तर महाविद्यालये किमगड़ी शीघ्रमेव विज्ञानविषयस्य आरम्भः भविष्यतीति घोषणापि कृता।

अस्मिन् अवसरॆ तेन राज्ययोजनान्तर्गतं विकासखण्डे पोखड़ा दमदेवल गडरीतः झलपाडी पर्यन्तं द्वादशात् पञ्चदश किलोमीटरपर्यन्तं मोटरमार्गस्य विस्तार पुनर्निर्माणं च सुधारीकरणाय लोकनिर्माणविभागस्य त्रिशत् नवत्रिंशत् लक्ष सप्तसप्ततिः सहस्र रूप्यकाणां योजनां सह, भरतपुर सुन्दरई मोटरमार्गस्य पुनर्निर्माणसुधारीकरणार्थं सप्तसप्ततिः लक्ष अष्टनवतिः सहस्र रूप्यकाणां योजना, दमदेवल गडरी मोटरमार्गस्य झलपाडी पर्यन्तं विस्तार पुनर्निर्माण सुधारीकरण डामरीकरणकार्याय द्विशत् बहत्तरि लक्ष एकत्रिंशत् सहस्र रूप्यकाणां योजना, चलकुडिया मस्मोली सकनोली नोखोली मोटरमार्गस्य पुनर्निर्माणसुधारीकरणाय त्रिशत् पञ्चचत्वारिंशत् लक्ष अष्टाशीतिः सहस्र रूप्यकाणां योजना, कुण्जखाल बरसुण्डा मोटरमार्गस्य नवीनीकरणकार्ये (स्टेज द्वितीयः) द्विशत् सप्तत्रिंशत् लक्ष एकविंशतिः सहस्र रूप्यकाणां योजना, संगलाकोटी बोन्दरखाल मोटरमार्गस्य क्षतिग्रस्तभित्तीनां पुनर्निर्माण नवनिर्माणाय सप्तनवतिः लक्ष षड् सहस्र रूप्यकाणां योजना, कोलाखाल जजेडी मोटरमार्गस्य डामरीकरणकार्याय द्विशत् द्वाविंशतिः लक्ष नवाशीतिः सहस्र रूप्यकाणां योजना तथा अष्ट विकासयोजनानां शिलान्यासं कृतवान्।

तदतिरिक्तं पंचायतानां सशक्तीकरणार्थं विकासखण्डे पोखड़ा पञ्चाशत् लक्ष रूप्यकव्ययेन निर्मितानां ग्रामपञ्चायत वीणाधार कमेड़ी देवरानी असलोट इत्यादीनां पंचायतभवनानां तथा विकासखण्डे एकेश्वर दश लक्ष रूप्यकव्ययेन निर्मितस्य ग्रामपञ्चायत डण्डा मल्ला पंचायतभवनस्य लोकार्पणं कृतवान्। विकासखण्डे पोखड़ा देवराड़ी ग्रामे चतुःत्रिंशत् शत लक्ष चतुर्नवतिः सहस्र रूप्यकव्ययेन निर्मीयमाणायाः स्प्रिंकलर प्रणालीआधारितायाः लिफ्टसिंचायोजनायाः शिलान्यासं तथा विकासखण्डे एकेश्वर ग्रामे पाखरी एकशत विंशति लक्ष रूप्यकव्ययेन सोलर आनग्रीड आधारितायाः लिफ्टसिंचायोजनायाः नवनिर्माणस्य लोकार्पणं च अकरोत्।

अपरं च विकासखण्डे पोखड़ा त्रिकिलोमीटरपरिमितस्य दमदेवल मोटरमार्गस्य डाडाखिलतः ग्राम कुई पर्यन्तं ग्रामीण मोटरमार्गनिर्माणकार्यस्य (स्टेज प्रथमः) अष्टशत् सप्ताशीतिः लक्ष द्वानवतिः सहस्र रूप्यकव्ययेन निर्मितस्य तथा चौबट्टाखाल कुई दांता मोटरमार्गात् उलखेत तोक अनुसूचित जाति मजगांव पर्यन्तं ग्रामीण मोटरमार्गनिर्माणकार्यस्य द्विशत् द्वादश लक्ष पञ्चत्रिंशत् सहस्र रूप्यकव्ययेन निर्मितस्य लोकार्पणं कृतवान्। एवं लोकनिर्माणविभागस्य अष्ट योजनाः पंचायतीराजविभागस्य षट योजनाः लघु डालखण्ड श्रीनगरस्य द्वे योजनाः ग्रामीणनिर्माणविभागस्य द्वे योजनाः इत्यादिसहितं षड्विंशति कोटि रूप्यकाणां अष्टादश योजनाः चौबट्टाखाल विधानसभाक्षेत्राय प्रदत्ताः।

तेन अवदत् यत् पाबौ एकेश्वर बीरोंखाल पोखड़ा विकासखण्डेषु पीएमजीएसवाई स्टेज चतुर्थस्य अन्तर्गतं दशसहस्र चतुःशीतिः लक्ष एकोनपञ्चाशत् सहस्र रूप्यकव्ययेन एकादश मोटरमार्गाणां स्वीकृतिः प्राप्ता अस्ति। शीघ्रमेव अग्रिमप्रक्रिया आरभ्यते।

क्षेत्रभ्रमणकाले कैबिनेट मन्त्रिणा राजकीय महाविद्यालये वेदीखाल निर्माणाधीनस्य बालिका छात्रावासस्य विद्यालयभवनस्य च मरम्मतकार्यस्य स्थलीय निरीक्षणमपि कृतम्।

अस्मिन् अवसरे अपर जिलाधिकारी अनिल सिंह गर्ब्यालः एसडीएम रेखा आर्या एडीपीआरओ प्रदीप सुंदरियालः लोकनिर्माणविभागस्य पंचायतविभागस्य च अधिकारीणः अन्ये च अधिकारिणः उपस्थिताः आसन्।

हिन्दुस्थान समाचार