मौनी अमावस्या 18 जनवरी , मौनेन , स्नानेन दानेन च लभ्यते पितृ कृपायाः आशीर्वादः
भोपालम्, 17 जनवरीमासः (हि.स.)। माघमासस्य अमावास्यातिथिं मौनी अमावास्या इति सनातनधर्मानुयायिनः प्राचीनकालादेव मन्यन्ते। अस्मिन् दिने श्रद्धालवः पवित्रनदीषु स्नानं कृत्वा दानपुण्यकर्माणि कुर्वन्ति तथा च मौनव्रतस्य पालनं कृत्वा आत्मचिन्तने साधनायां च
माैनी अमावस्‍या, प्रतीकात्‍मक चित्र


भोपालम्, 17 जनवरीमासः (हि.स.)।

माघमासस्य अमावास्यातिथिं मौनी अमावास्या इति सनातनधर्मानुयायिनः प्राचीनकालादेव मन्यन्ते। अस्मिन् दिने श्रद्धालवः पवित्रनदीषु स्नानं कृत्वा दानपुण्यकर्माणि कुर्वन्ति तथा च मौनव्रतस्य पालनं कृत्वा आत्मचिन्तने साधनायां च लीनाः भवन्ति। पञ्चाङ्गानुसारम् अस्मिन् वर्षे मौनी अमावास्या रविवासरे अष्टादशे जानेवारीमासे आचर्यते।

अस्मिन् विषये ज्योतिषाचार्यः भरतचन्द्रदुबे शनिवासरे अवदत् यत् मौनी अमावास्यायां मौनपालनमेव महत्तमं तपः मन्यते। मौनेन मनः शान्तिं प्राप्नोति, विचाराः संयताः भवन्ति, आत्मनः शुद्धिश्च जायते। शास्त्रेषु उक्तं यत् मौनसाधनया वाण्याः शुद्धिर्भवति, पापानां नाशो भवति, साधकश्च आध्यात्मिकां उन्नतिं प्राप्नोति। एतद्व्रतं मानसिकशान्तेः उत्तमस्वास्थ्यस्य ज्ञानवृद्धेः च मार्गं प्रशस्तं करोति।

तेन एव उक्तं यत् पञ्चाङ्गानुसारम् अमावास्यातिथिः अष्टादशे जानेवारीमासे रात्रौ एकवादनविंशतिमिनिटेभ्यः आरभ्य एकोनविंशे दिने पर्यन्तं स्थास्यति। अस्मिन् दिने सूर्योदयः प्रातः सप्तवादनपञ्चदशमिनिटे, सूर्यास्तश्च सायं पञ्चवादनएकोनपञ्चाशत्मिनिटे भविष्यति। पूर्वाषाढा नक्षत्रं प्रातः दशवादनचतुर्दशमिनिटपर्यन्तं स्थास्यति, ततः उत्तराषाढा नक्षत्रं आरभ्यते। हर्षणयोगः सायं नववादनेकादशमिनिटपर्यन्तं स्थास्यति, करणं चतुष्पादं मध्याह्ने द्वादशवादनपञ्चचत्वारिंशत्मिनिटपर्यन्तं भविष्यति। राहुकालः अपराह्णे चतुर्वादनएकोनत्रिंशत्मिनिटेभ्यः आरभ्य सायं पञ्चवादनएकोनपञ्चाशत्मिनिटपर्यन्तं स्थास्यति, अस्मिन् काले शुभकर्माणां वर्जनं करणीयम् इति उपदिश्यते।

अपि च धर्माचार्यः पण्डितराजेशचौबे वदति यत् मौनी अमावास्या पितॄणां आराधनायै विशेषफलदायिनी तिथिः अस्ति। मान्यता अस्ति यत् अस्यां पावनतिथौ देवताः पितृलोकस्थाश्च पूर्वजाः पृथिव्यां आगच्छन्ति। मौनव्रतेन सह कृतं स्नानं दानं पूजां च पितॄन् अत्यन्तं प्रसन्नान् करोति। अनेन पितृदोषनिवारणं भवति, पूर्वजकृपया च गृहे सुखशान्तिसमृद्धयः वर्धन्ते।

तदनुसारं माघमासस्य एषा अमावास्या प्रयागराजस्थिते त्रिवेणीसंगमे नर्मदायां गङ्गायां यमुनायां कावेरीयां गोदावर्यां च स्नानाय उत्तमा मन्यते। लक्षशः श्रद्धालवः गङ्गायमुनासरस्वत्योः संगमे आस्थायाः स्नानं कुर्वन्ति, अन्यत्रापि पवित्रनदीषु स्नानं करिष्यन्ति। शास्त्रानुसारं यदि केनापि कारणेन नदीस्नानं सम्भवति न, तर्हि गृहे स्नानकाले त्रिवेणीसंगमस्य ध्यानमात्रेण अपि समानं पुण्यफलं लभ्यते।

एतेन सह भागवताचार्यः बृजेशचन्द्रदुबे अवदत् यत् मौनी अमावास्यायां पितॄणां तर्पणं श्राद्धं च अत्यन्तं शुभं मन्यते। दक्षिणदिशि मुखं कृत्वा कृष्णतिलैः कुशैः जलेन च अर्घ्यं दातव्यम्। पीपलवृक्षस्य पूजापरिक्रमयोः अपि विशेषविधानं अस्ति। भगवतः विष्णोः भगवतः शिवस्य च पूजया विशेषफलप्राप्तिर्भवति। श्रद्धालवः स्वसामर्थ्यानुसारं कृष्णतिलान् गुडं घृतं अन्नं तण्डुलान् आटं उष्णवस्त्राणि पक्कान्नं फलानि धनं च दातुं शक्नुवन्ति। दरिद्राणां ब्राह्मणानां च आवश्यकतायुक्तानां भोजनदानं अत्यन्तं पुण्यदायकं मन्यते। दानं गुप्तरूपेण करणं श्रेष्ठफलदायकं भवति।

आचार्यः ब्रजेशः अपि वदति यत् मौनी अमावास्यापर्व आत्मशुद्धेः पापनिवृत्तेः मोक्षकामनायाश्च श्रेष्ठः अवसरः अस्ति। मौनसाधनया स्नानदानपितृपूजाभिः नकारात्मकता नश्यति, जीवने च सकारात्मकशक्तेः सञ्चारो भवति। अस्मिन् वर्षे मौनी अमावास्यायां सर्वार्थसिद्धियोगः अपि जातः अस्ति। सर्वार्थसिद्धियोगः शुभयोगेषु अत्युत्तमः मन्यते, यतः अस्मिन् योगे कृतं यत्किमपि कार्यं सफलतां प्राप्नोति इति धारणा अस्ति। मौनी अमावास्यायां सर्वार्थसिद्धियोगः प्रातः दशवादनचतुर्दशमिनिटेभ्यः आरभ्य एकोनविंशे दिने प्रातः सप्तवादनचतुर्दशमिनिटपर्यन्तं स्थास्यति।

---------------

हिन्दुस्थान समाचार