“कृषकाणां कृते उर्वरकम् अद्य पारदर्शी तथा सुव्यवस्थित-प्रकारेण लभ्यते” — उपायुक्ता अदिति गर्ग:
मंदसौरनगरम्, १७ जनवरीमासः (हि.स.)। जनपदे रासायनिक-उर्वरकाणां सुचारू, पारदर्शी च समयबद्ध वितरणोद्देश्ये मध्यप्रदेश-राज्येन ई-टोकन-प्रणाली प्रवर्तिता अस्ति। अस्या: नवीन-व्यवस्थायाः अन्तर्गतम् अधुना कृषकाणां कृते ई-टोकनप्राप्त्यै निर्धारित-प्रक्रियाया
अब पारदर्शी एवं सुव्यवस्थित तरीके से मिलेगा किसानों को खाद : कलेक्टर श्रीमती गर्ग


मंदसौरनगरम्, १७ जनवरीमासः (हि.स.)। जनपदे रासायनिक-उर्वरकाणां सुचारू, पारदर्शी च समयबद्ध वितरणोद्देश्ये मध्यप्रदेश-राज्येन ई-टोकन-प्रणाली प्रवर्तिता अस्ति। अस्या: नवीन-व्यवस्थायाः अन्तर्गतम् अधुना कृषकाणां कृते ई-टोकनप्राप्त्यै निर्धारित-प्रक्रियायाम् अधिष्ठानं कृतम्, यतः अनावश्यक-सम्मर्द;, असुविधा च न स्यात्।

उपायुक्ता अदिती-गर्ग: अवदत् यत् ई-टोकन-प्रणाली अन्तर्गतं कृषकः स्वस्य आधारक्रमांकं, समग्र-ID च भूमेः विवरणस्य आधारेण पञ्जीकृत्य ई-टोकन-इति प्राप्नोति। ततः टोकननिर्दिष्टे दिनाङ्के तथा कालावधौ सम्बन्धित-सहकारी-समित्या, विपणन-संघद्वारा सञ्चालित-नगदी-खाद-विक्रय-केन्द्रे अथवा अधिकृत-विक्रेता कृषकः स्वभूमेः मापनागुणं रासायनिक-उर्वरकं प्राप्तुं शक्नोति। एतेन कृषकाणां पङ्क्तौ प्रतीक्षायां व्ययः न स्यात्, तथा सर्वे पात्रकृषकाः आवश्यकतानुसारं समये उर्वरकं प्राप्स्यन्ति। ई-टोकन-प्रणाली अन्तर्गत गतद्वयो: दिनयोः जनपदस्य सहकारी-संस्थाभ्यः ६९ कृषकाः सुगमतापूर्वकं रासायनिक-उर्वरकं प्राप्तवन्तः।

ई-टोकन-प्रणाली द्वारा उर्वरकं-वितरणे पारदर्शिता आगमिष्यति तथा वास्तविक-कृषकाणां प्राथमिकता सुनिश्चितं भविष्यति। जनपद-प्रशासनं कृषकान् प्रति आवाहनं कृतवान् यत् ते केवलं ई-टोकनमाध्यमेन उर्वरकं प्राप्नुयुः।

ई-टोकन-प्रणाली अन्तर्गतं कस्यापि प्रकारस्य सूचना अथवा समस्याया: समाधानाय कृषकः निकटतम-कृषि-विस्तार-अधिकारिणा अथवा सहकारी-संस्थानेन वा सम्पर्कं कर्तुं शक्नोति।

एषा प्रणाली-प्रवर्तनात् जनपदे उर्वरकं-वितरण-व्यवस्था सुदृढा भविष्यति, तथा खरीफ/रबी-ऋतौ कृषकाणां समये उर्वरक-सुलभता सुनिश्चिता भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता