स्थानके यात्रिभ्यो लप्स्यति स्थानीय हस्तशिल्पस्य स्वादः, ‘एक स्टेशन एक उत्पाद’ इति योजनया वर्धिता सुविधा
काेटा, 17 जनवरीमासः (हि.स.)। रेलमन्त्रालयस्य “एकः स्टेशन एकं उत्पादः” इति योजनायाः अन्तर्गतं यात्रिकान् यात्राकाले स्थानीयहस्तशिल्पैः तथा विविधैः स्थानीयोत्पादैः सह संयोजयितुं सोगरिया-रेलस्थाने तथा न्यू-कोटा (ढकनिया-तलाब) रेलस्थाने अनुमोदितानां उत
स्टेशनों पर यात्रियों को मिलेगा स्थानीय हस्तशिल्प का स्वाद, ‘एक स्टेशन एक उत्पाद’ योजना से बढ़ी सुविधा


काेटा, 17 जनवरीमासः (हि.स.)।

रेलमन्त्रालयस्य “एकः स्टेशन एकं उत्पादः” इति योजनायाः अन्तर्गतं यात्रिकान् यात्राकाले स्थानीयहस्तशिल्पैः तथा विविधैः स्थानीयोत्पादैः सह संयोजयितुं सोगरिया-रेलस्थाने तथा न्यू-कोटा (ढकनिया-तलाब) रेलस्थाने अनुमोदितानां उत्पादानां प्रदर्शनी-सह-विक्रयव्यवस्था सञ्चाल्यते। वरिष्ठमण्डलवाणिज्यप्रबन्धकः सौरभजैनः अवदत् यत् एतयोः उभयोः रेलस्थानयोः पूर्वं आयोजितायां प्रदर्शनी-सह-विक्रयव्यवस्थायां यात्रिभ्यः सकारात्मकः प्रतिसादः प्राप्तः। यात्रिभिः यात्राप्रतीक्षाकाले स्थानीयोत्पादानां दर्शनं क्रयणं च उपयोगी इति मन्यते स्म, येन रेलस्थानपरिसरे समयस्य सम्यक् उपयोगः सम्भवः अभवत्।

अस्यां योजनायां प्रदर्शनी-सह-विक्रयस्य कालावधिः पञ्चदशदिनात् आरभ्य त्रिमासपर्यन्तं निर्धारितुं शक्यते। अस्याः योजनायाः उद्देश्यं यात्रिभ्यः रेलस्थाने एव विश्वसनीयान् प्रमाणितांश्च स्थानीयोत्पादान् उपलब्धान् कर्तुं तथा परम्परागतकारिगरीं व्यापकां ख्यातिं दातुं च अस्ति।

प्रदर्शनस्य सञ्चालनार्थं केवलं ते एव व्यक्तयः अथवा समूहाः पात्राः भविष्यन्ति ये विकासायुक्तेन हस्तशिल्पे अथवा विकासायुक्तेन हथकरघे प्रदत्तं कारीगरपरिचयपत्रं बुनकरपरिचयपत्रं वा धारयन्ति, अथवा ट्राइबल् कोऑपरेटिव् मार्केटिङ् डेवलप्मेन्ट् फेडरेशन् ऑफ् इण्डिया लिमिटेड्, नेशनल् हैंडलूम् डेवलप्मेन्ट् कॉरपोरेशन्, खादी एवं ग्रामोद्योग आयोगः इत्यादिभिः मान्यताप्राप्तैः संस्थाभिः नामाङ्किताः सन्ति।

अतिरिक्ततया प्रधानमन्त्री रोजगारसृजनकार्यक्रमस्य अन्तर्गतं पञ्जीकृताः स्वयं-सहायतासमूहाः, समाजस्य वञ्चितवर्गेभ्यः दुर्बलवर्गेभ्यः सम्बद्धाः कारीगराः, एमएसएमई मन्त्रालयस्य उद्योगपटले पञ्जीकृताः सूक्ष्मउद्यमिनः, गैरसरकारीसंस्थाभिः सम्बद्धाः शिल्पकाराः, तथा राज्यसरकारेण सामाजिकसंस्थाभिः वा सम्बद्धाः व्यक्तिगतकारीगराः अपि आवेदनाय पात्राः सन्ति। किन्तु कस्यापि प्रकारस्य दलाली अथवा बिचौलियव्यवस्था न मान्यते।

इच्छुकाः पात्राणि व्यक्तयः अथवा समूहाः २१ जनवरी २०२६ तमे दिने मध्यान्हे द्वादशवादनपर्यन्तं सोगरिया-रेलस्थानप्रबन्धकस्य अथवा न्यू-कोटा (ढकनिया-तलाब) रेलस्थानप्रबन्धकस्य कार्यालयात् आवेदनपत्रं प्राप्य तत्रैव समर्पयितुं शक्नुवन्ति।

रेलविभागस्य मतम् अस्ति यत् एषा पहल यात्रिणां कृते रेलस्थानानुभवं अधिकं उपयोगी करिष्यति तथा स्थानीयोत्पादेभ्यः नूतनां परिचयं प्रदास्यति।

---------------

हिन्दुस्थान समाचार