Enter your Email Address to subscribe to our newsletters

पूर्वी चंपारणम्,17 जनवरीमासः (हि.स.)।
समृद्धियात्रायाः द्वितीये दिने माननीयः मुख्यमन्त्री नीतिशकुमारः शनिवासरे मोतिहारीनगरं प्राप्तवान्। अस्मिन् अवसरॆ तेन पूर्वीचम्पारणजनपदे विविधयोजनानां जायजा गृहीतः तथा च प्रगतियात्राकाले कृतानां घोषणानां क्रियान्वयनविषये अधिकारिभ्यः विवरणं प्राप्तम्। तेषां कार्याणि शीघ्रतया पूर्णानि कर्तुं मुख्यमन्त्रिणा निर्देशो दत्तः।
एतेन सह तेन अष्टत्रिंशदधिकशतकोटिरूप्यकव्ययेन त्रिंशत् योजनानां उद्घाटनं कृतम् तथा च चतुस्त्रिंशदधिककोटिरूप्यकव्ययेन चत्वारिंशत् योजनानां शिलान्यासः कृतः।
समृद्धियात्राकाले मुख्यमन्त्रिणा मोतिहारीनगरस्थं महिला राजकीय औद्योगिक प्रशिक्षण संस्थानं निरीक्षितम्। तत्र टाटा टेक संस्थायाः सहयोगेन सञ्चालितस्य प्रशिक्षणकार्यक्रमस्य अवलोकनं कृत्वा छात्राभिः सह संवादः कृतः। छात्राभिः निवेदितं यत् एतेन प्रकारेण प्रशिक्षणेन तासां महत् लाभः जातः तथा च बहुशिक्षणावसरः प्राप्तः।
मुख्यमन्त्रिणा राजकीय औद्योगिक प्रशिक्षण परिसरॆ आयोजिते कार्यक्रमे दूरनियन्त्रणयन्त्रस्य माध्यमेन शिलापट्टानावरणं कृत्वा पूर्वीचम्पारणजनपदस्य सर्वासां योजनानां शिलान्यासः उद्घाटनं च कृतम्। ततः परं परिसरॆ स्थापितानां विविधस्टॉलानां निरीक्षणमपि कृतम्। निरीक्षणकाले लघुउद्यमीयोजनया लाभान्वितानां उद्यमिनां उत्पादान् दृष्ट्वा तेषां प्रशंसा कृता तथा च उद्यमिभिः सह संवादं कृत्वा तान् प्रोत्साहितवान्।
मुख्यमन्त्रिणा जीविका दीदीनां स्थापितानां स्टॉलानामपि निरीक्षणं कृतम्। अस्मिन् अवसरॆ तेन सप्तविंशतिसहस्रचतुशताधिकनवविंशतिः जीविका स्वयंसहायतासमूहानां कृते विविधबैंकलिंकेजमाध्यमेन आर्थिकसहायतार्थं त्रिशतसप्ततिकोटिरूप्यकाणां सांकेतिकचेकः प्रदत्तः। जीविका दीदीन् उद्दिश्य मुख्यमन्त्रिणा उक्तं यत् भवन्तः उत्तमं कार्यं कुर्वन्तु।
तत्पश्चात् मुख्यमन्त्रिणा नगरसमीपस्थे मजुराहाँ ग्रामे धनौतीनद्यां निर्माणाधीनस्य उच्चस्तरीयस्य आरसीसी पुलस्य सह पहुँचपथस्य निरीक्षणं कृतम्। निरीक्षणकाले अधिकारिभ्यः निर्देशं दत्त्वा उक्तं यत् एतत् कार्यं शीघ्रं पूर्णं करोतु, येन जनानां आवागमने सुविधा भविष्यति।
अस्मात् पूर्वं मुख्यमन्त्रिणा पूर्वीचम्पारणजनपदस्य कल्याणपुरप्रखण्डे निर्माणाधीनस्य विराटरामायणमन्दिरस्य प्रगतिकार्यस्य जायजा गृहीतः तथा च सहस्रलिङ्गपूजनसमारोहॆ सहभागिता कृता। तेन निर्माणाधीनमन्दिरपरिसरस्य भ्रमणं कृत्वा आवश्यकनिर्देशाः दत्ताः।
अस्मिन् अवसरॆ उपमुख्यमन्त्री सम्राट चौधरी, उपमुख्यमन्त्री विजयकुमार सिन्हा, जलसंसाधनसह संसदीयकार्य मन्त्री विजयकुमार चौधरी सहिताः अन्ये जनप्रतिनिधयः उपस्थिताः आसन्।
समृद्धियात्राकाले मुख्यमन्त्रिणः प्रधानसचिवः दीपककुमारः, मुख्यसचिवः प्रत्यय अमृतः, पुलिसमहानिदेशकः विनयकुमारः, मुख्यमन्त्रिणः सचिवः अनुपमकुमारः, युवा रोजगार एवं कौशलविभागस्य सचिवः कौशलकिशोरः, बिहारराज्यपथविकासनिगमस्य प्रबन्धनिदेशकः शीर्षत् कपिल अशोकः, तिरहुत् प्रमण्डलस्य आयुक्तः गिरिवर दयाल सिंहः, पूर्वीचम्पारणस्य जिलाधिकारी सौरभ जोरवालः, पुलिस अधीक्षकः स्वर्ण प्रभातः तथा अन्ये वरिष्ठाः अधिकारीणः अपि उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार