Enter your Email Address to subscribe to our newsletters

हरिद्वारनगरम्, १७ जनवरीमासः (हि.स.)। गृह-मन्त्री अमित-शाहेन सह पंचायती-अखाडा इत्यस्य श्री-निरञ्जनीपीठस्य आचार्य-महामण्डलेश्वरः स्वामी कैलाशानन्द-गिरि: तथा अखिल-भारतीय-अखाडापरिषद: अध्यक्षः श्रीमहन्तः रविन्द्रपुरी च अद्य दिल्ली-नगरे साक्षात्कारं कृतवन्तौ।
सभायां अग्रिम-हरिद्वार-कुंभ-मेलापके तथा “विकसित-भारत” संकल्पनायाम् सनातन-धर्मस्य भूमिकायाः विषये विचार-विमर्शः अभवत्।उभयोः सन्तयोः शनिवार-दिने हरिद्वारात् प्रकाशितवक्तव्यानुसारम् अवदत् यत् सशक्तं समर्थं च भारत-निर्माणाय सनातन-मूल्यानि भारतीय-संस्कृते: च आधारस्तम्भाः सन्ति।
सब: अवदत् यत् हरिद्वार-कुम्भ: केवलं धार्मिक-उपक्रमः न, किन्तु वैश्विक-मञ्चे भारतस्य सांस्कृतिक-शक्तिं प्रदर्शयितुं अवसरः इति मन्यते।
अखिल-भारतीय-अखाडा परिषद: अध्यक्षः श्रीमहन्तः रविन्द्रपुरी अवदत् यत् प्रधानमन्त्रिण: नरेन्द्रमोदिन: तथा गृह-मन्त्रिण: अमित-शाहस्य नेतृत्वे मठ-मन्दिरे सुव्यवस्थितानि कृत्वा सनातन-धर्मस्य दृढीकरणं कृतम्।
निरञ्जनी-पीठाध्यक्षः स्वामी कैलाशानन्द-गिरि अपि गृह-मन्त्रिणः प्रयासानां प्रशंसां कृतवान्।सन्ताः सभायां राष्ट्रस्य महत्वपूर्णेषु राष्ट्रिय-प्रश्नेषु चर्चां कृतवन्तः तथा महाराष्ट्र-राज्ये नगर-निकायेषु मुम्बई-महानगर-निगमे च जय-फलस्य गृह-मन्त्रिणः अभिनन्दनं कृतवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता