छात्रैः भविष्यस्य परिस्थितिभ्यो सक्षमं निर्माणशैक्षणिकी गुणवत्ता एवं च सुव्यवस्थिता अधोसंरचना : आनंदीबेन पटेलः
कानपुरम्, 18 जनवरीमासः (हि. स.)। उत्तरप्रदेशराज्यस्य कानपुरजनपदे कम्पनीबागस्थिते चन्द्रशेखरआजादकृषिएवम्प्रौद्योगिकीविश्वविद्यालयस्य परिसरे वर्तमानानां कन्याछात्रावासानां निरीक्षणं उत्तरप्रदेशस्य राज्यपालः आनन्दीबेनपटेल् महोदया अकरोत्। अस्मिन् अवसरे
शैक्षणिक गुणवत्ता,अनुशासन और सुव्यवस्थित अधोसंरचना ही छात्रों को भविष्य की चुनौतियों के लिए सक्षम बनाती है


कानपुरम्, 18 जनवरीमासः (हि. स.)। उत्तरप्रदेशराज्यस्य कानपुरजनपदे कम्पनीबागस्थिते चन्द्रशेखरआजादकृषिएवम्प्रौद्योगिकीविश्वविद्यालयस्य परिसरे वर्तमानानां कन्याछात्रावासानां निरीक्षणं उत्तरप्रदेशस्य राज्यपालः आनन्दीबेनपटेल् महोदया अकरोत्। अस्मिन् अवसरे सा सरोजिनीनायडू कन्याछात्रावासं गोधावरी कन्याच्छात्रावासं च अवलोकितवती। एतत् वृत्तं रविवासरे सीएसए मीडिया प्रभारी डाक्टर् खलीलखानः अवेदयत्।

मीडिया प्रभारी डाक्टर् खलीलखानः अवदत् यत् कुलाधिपतिः आनन्दीबेनपटेल् महोदया छात्राभिः सह संवादं कृत्वा उपलब्धसुविधानां भोजनस्य पेयजलस्य स्वच्छतायाः च विषये जानकारीं प्राप्तवती। तदनन्तरं विश्वविद्यालयप्रशासनं प्रति छात्रावासानां विभागानां च समस्यासमाधानार्थं स्पष्टान् निर्देशान् अददात्।

तस्य कथनानुसारं अस्मिन् अवसरें राज्यपालः आनन्दीबेनपटेल् महोदया छात्रछात्राणां सर्वांगीणविकासार्थं गुणवत्तापूर्णशिक्षा उत्तमसुविधानि सुरक्षितं वातावरणं च सुनिश्चितं कर्तुं निर्देशान् दत्तवती। सा पठनपाठनं प्रायोगिककार्यं च मध्ये उपलब्धसंसाधनानां सम्यक् उपयोगे विशेषं बलं दत्तवती तथा सर्वेषु पाठ्यक्रमेषु आवश्यकतानुसारं शैक्षणिकसुविधानां सुनिश्चितिकरणं कर्तव्यमिति अवदत्। छात्रावासेषु निवसन्तीभ्यः छात्राभ्यः संवादं कृत्वा तासां उपलब्धसुविधा भोजनस्वच्छता इत्यादीनां जानकारीं अपि प्राप्तवती।

निरीक्षणकाले राज्यपालः परिसरे स्वच्छताव्यवस्थां सुदृढीकर्तुं स्पष्टनिर्देशान् दत्तवती। अपि च लम्बितनिर्माणकार्याणां शीघ्रसमाप्त्यर्थं कार्यदायीसंस्थां प्रति आदेशान् अददात्।

डाक्टर् खानः अपि अवदत् यत् कुलपतिसभागारकक्षे समीक्षासभा सम्पन्ना। तस्यां सभायां छात्रावासान् क्रीडाङ्गणं जैविककृषिं व्यायामशालां तरणतालं च निरीक्ष्य एनआइआरएफ् अन्तर्गतं विश्वविद्यालयस्य क्रमाङ्कसुधारणाय निर्देशाः दत्ताः।

कुलाधिपतिः राज्यपालः आनन्दीबेनपटेल् महोदया अवदत् यत् शैक्षणिकगुणवत्ता अनुशासनं सुव्यवस्थिताधोसंरचना च एव छात्रान् भविष्यस्य आव्हानानां सामना कर्तुं समर्थान् कुर्वन्ति।

अस्मिन् अवसरे प्रदेशस्य कृषिशिक्षाएवम्अनुसन्धानमन्त्री सूर्यप्रतापशाही राज्यपालस्य विशेषकार्याधिकारी डाक्टर् पंकजएलजानी विश्वविद्यालयस्य कुलपतिः केविजयेन्द्रपाण्डियनः कुलसचिवः एवम् निदेशकप्रशासनः रेनुसिंह अर्थनियन्त्रकः संजयारायः सहितं विश्वविद्यालयस्य सर्वे अधिष्ठातारः निर्देशकाः विभागाध्यक्षाः छात्रावासानां अधीक्षकाः वार्डेन्स अन्ये च अधिकारिणः उपस्थिताः आसन्।

हिन्दुस्थान समाचार