Enter your Email Address to subscribe to our newsletters

शिम्लानगरम्, १८ जनवरीमासः (हि.स.) – हिमाचल-प्रदेश-विश्वविद्यालयः (एचपीयू) छात्राणां गृहात् अध्ययनं कृत्वा डिग्री तथा डिप्लोमा-प्राप्तेः महत्त्वपूर्णम् अवसरं प्रदत्तवान्। विश्वविद्यालयस्य “सेंटर फॉर डिस्टेन्स एण्ड ऑनलाइन एजुकेशन” (सीडीओई) अन्तर्गतं शैक्षणिक-सत्रस्य २०२५–२६ वर्षीय अंडरग्रेजुएट, पोस्टग्रेजुएट च डिप्लोमा-पाठ्यक्रमेषु प्रवेशस्य प्रक्रिया आरब्धा।
अन्तर्जाल-पंजीकरण-पटलम् १९ जनवरीमासे उद्घाट्यते। सर्वेषु पाठ्यक्रमेषु आवेदनस्य अन्तिमतिथिः २८ फरवरीपर्यन्तं निश्चिता। एषा व्यवस्था तेषां यूनां कृते विशेषतया लाभकारी, येषां कारणेन कर्म, निज-कार्यं वा अन्यकारणं यतः विश्वविद्यालयं प्रत्यक्षं गत्वा अध्ययनं न शक्यते। एचपीयू-इत्यस्य एषः अन्तर्जाल: तथा दूरस्थ-पाठ्यक्रम: विद्यार्थिभ्यः अध्ययनं कृत्वा स्वकार्यम् अपि निरन्तरं कर्तुम् अवसरं ददाति।
पाठ्यक्रम-व्यवस्था:
स्नातक-स्तरः – बी.ए. तथा बी.कॉम त्रिवर्षीय वार्षिक-पद्धत्या।
स्नातकोत्तर-स्तरः – एम.ए. (हिन्दी-आंग्ल-अर्थशास्त्र-इतिहास-संगीत-संस्कृत-लोकप्रशासन-समाजशास्त्र-राजनीति-शास्त्र-जर्नलिज्म एण्ड् मास कम्युनिकेशन)
द्विवर्षीय सेमेस्टर-पद्धत्या
एम.कॉम तथा ए.आई.सी.टी.ई. अनुमोदित एम.बी.ए. द्विवर्षीय सेमेस्टर-पद्धत्या।
शिक्षा-क्षेत्रे करियर-रूचि-युक्ताः – बी.एड द्विवर्षीयवार्षिक-पद्धत्या, एम.ए. एजुकेशन द्विवर्षीय सेमेस्टर-पद्धत्या।श, डिप्लोमा-पाठ्यक्रमा: – डिप्लोमा इन योगा स्टडीज (एकवर्षीय वार्षिक-पद्धत्या), डिप्लोमा इन कम्प्युटर एप्लीकेशन (डी.सी.ए.), डिप्लोमा इन डेटा साइन्स (डी.डी.एस.) (एकवर्षीय सेमेस्टर-पद्धत्या)।
विश्वविद्यालयप्रशासनस्य अनुसारं सर्वे प्रवेशाः पूर्णतया अन्तर्जालमाध्यमेन भविष्यन्ति। इच्छुकाः अभ्यर्थिनः एचपीयू जालपृष्ठेन www.hpuniv.ac.in अथवा https://nadmissions.hpushimla.in लिंकमाध्यमेन आवेदनं कर्तुं शक्नुवन्ति।
विश्वविद्यालयः अभ्यर्थिभ्यः परामर्शं दत्तवान् यत् आवेदनात् पूर्वं पात्रता-नियमा: तथा पाठ्यक्रम-नियमावली ध्यानपूर्वकं पठ्यन्ताम्। विशेषतः कर्मशीलाः, गृहीण्यः, दूरवर्ती क्षेत्रे निवसन्तः च छात्राः एषः अन्तर्जालमाध्यमेन उच्च-शिक्षायाः स्वप्नं सिद्ध्यर्थं सुवर्ण-अवसरः इति वर्तते।
हिन्दुस्थान समाचार / Dheeraj Maithani