Enter your Email Address to subscribe to our newsletters

मुंबई, 18 जनवरीमासः (हि.स.)।
भारतीयजनतापक्षस्य वरिष्ठनेता तथा महाराष्ट्रराज्यस्य पूर्वमन्त्री राजपुरोहितः (वयः ७० वर्षाणि) गतायां रात्रौ मुम्बईनगरे स्थिते एकस्मिन् चिकित्सालये निधनं गतवान्। गतकेषु दिनेषु स्वास्थ्यदौर्बल्यकारणेन सः मुम्बईनगरे स्थिते चिकित्सालये उपचारं प्राप्नोति स्म।
एतां सूचनां तस्य पुत्रः आकाशपुरोहितः अददात्। तेन उक्तं यत् मुम्बईनगरे मरीनलाइन्सप्रदेशस्य समीपे स्थिते चन्दनवाडीश्मशानघाटे राजपुरोहितस्य अन्त्यसंस्कारः क्रियते।
राजपुरोहितस्य राजनैतिकजीवनस्य आरम्भः मुम्बईनगरे नगरसेवकरूपेण अभवत्। मुम्बईनगरे भारतीयजनतापक्षस्य विस्ताराय तस्य महत्त्वपूर्णं योगदानम् आसीत्। सः मुम्बईभाजपायाः अध्यक्षपदं अपि भूषितवान्।
विधानसभायां विदग्धवक्तारूपेण ख्यातः राजपुरोहितः प्रथमवारं १९९० तमे वर्षे मुम्बादेवी विधानसभाक्षेत्रात् विधायकत्वेन निर्वाचितः अभवत्। ततः अनन्तरं सः निरन्तरं चतुःवारं अस्य क्षेत्रस्य प्रतिनिधित्वं कृतवान्। पश्चात् २०१४ तमे वर्षे सः कोलाबा विधानसभाक्षेत्रात् विधायकत्वेन निर्वाचितः।
१९९५ तमे वर्षे राज्ये सत्तारूढायां शिवसेनाभाजपागठबन्धनसरकारे सः मन्त्री अपि अभवत्। एवं सः निरन्तरं पञ्चवारं विधायकः अभवत्। राजपुरोहितस्य स्वभावः सर्वान् जनान् समन्वयेन सह नेतुं समर्थः आसीत्, तस्मात् सः सर्ववर्गेषु प्रियः आसीत्। मुम्बईनगरे भारतीयजनतापक्षस्य विस्ताराय तस्य अतुलनीयम् योगदानं स्मरणीयम् अस्ति।
---------------
हिन्दुस्थान समाचार