Enter your Email Address to subscribe to our newsletters

जम्मूनगरम्, १८ जनवरीमासः (हि.स.)। जम्मू–कश्मीर–विधानसभायाः अध्यक्षः अधिवक्ता अब्दुलरहीमः राथरः विधानसभायाः प्रक्रिया–कार्य–संचालन–नियमावले: नियम ३१७ अन्वये सदनस्य नव सदस्यान् व्यापार–सलाहकार–समित्यां सेवां दातुं मनोनीतवान्।
जम्मू–कश्मीर–विधानसभा–सचिवालयेन निर्गता सूचनानुसारम् अध्यक्षः स्वयमेव व्यापार–सलाहकार–समितेः अध्यक्षरूपेण नेतृत्वं करिष्यति। मनोनीतेषु सदस्येषु विपक्षनेता सुनीलकुमार: शर्मा, अली मोहम्मदसागर:, मुबारिकगुल:, मोहम्मदयूसुफ: तारिगामी, गुलाम-अहमदमीर:, सज्जादगनीलोन:, मीरमोहम्मदफैयाजः तथा चौधरी मोहम्मद-अकरम च सन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता