मुरादाबादे उत्साहेन समाचरितस्य भगवान चंद्र प्रभोः 108 तमस्स्थापनादिवसः
-200 वर्षेभ्यः पुरातनप्राचीन जैन मंदिरे लोहागढे भगवतश्चंद्र प्रभोः मूल प्रतिमायाः स्थापनायाः 108 वर्षाणि पूर्णानि मुरादाबादम्, 18 जनवरीमासः (हि.स.)। उत्तरप्रदेशराज्यस्य मुरादाबादजनपदे दिगम्बरजैनसमाजस्य तत्वावधाने रविवासरे भगवान् चन्द्रप्रभोः अष्टो
प्राचीन जैन मंदिर लोहागढ़ में कार्यक्रम के दौरान उपस्थित जैन समाज के लोग।


प्राचीन जैन मंदिर लोहागढ़ में कार्यक्रम के दौरान उपस्थित जैन समाज के लोग।


-200 वर्षेभ्यः पुरातनप्राचीन जैन मंदिरे लोहागढे भगवतश्चंद्र प्रभोः मूल प्रतिमायाः स्थापनायाः 108 वर्षाणि पूर्णानि

मुरादाबादम्, 18 जनवरीमासः (हि.स.)। उत्तरप्रदेशराज्यस्य मुरादाबादजनपदे दिगम्बरजैनसमाजस्य तत्वावधाने रविवासरे भगवान् चन्द्रप्रभोः अष्टोत्तरशततमः प्रतिष्ठादिवसः हर्षोल्लासेन समाचरितः।मुरादाबादनगरे लोहागढे स्थितं अतिशयकारी प्राचीनं जैनमन्दिरं प्रायः द्विशतवर्षपुरातनं विद्यते, अस्मिन् मन्दिरे भगवान् चन्द्रप्रभोः मूलप्रतिमायाः प्रतिष्ठायाः अद्य अष्टोत्तरशतवर्षाणि पूर्णानि अभवन्।

एतस्मिन् शुभोपलक्ष्ये आर्यिका एकशतपञ्चविक्षामतिमाताजी ससंघस्य सान्निध्ये भगवानः प्रतिष्ठादिवसः तथा भगवान् आदिनाथस्य सहस्राष्टोत्तरशतसंख्यायुक्तः मोक्षकल्याणकदिवसः सहैकत्र समायोजितः।अस्मिन् एव प्राचीनजैनमन्दिरे लोहागढे भगवान् आदिनाथस्य मोक्षकल्याणकदिने एव अष्टोत्तरशतवर्षेभ्यः पूर्वं भगवान् चन्द्रप्रभोः प्रतिमायाः प्रतिष्ठा कृता आसीत्।

भगवान् जिनशासनदेवस्य आदिनाथस्य मोक्षकल्याणकपर्वणि लड्डुसमर्पणस्य सौभाग्यं मुरादाबाददिगम्बरजैनसमाजस्य अध्यक्षस्य अनिलजैनस्य शशिजैनपरिवारस्य च प्राप्तम्।मूलनायकभगवतः शान्तिधारायाः बोल्याः सौभाग्यं नरेन्द्रजैनस्य आकाशजैनपरिवारस्य च प्राप्तम्।

विक्षामतिमाताजी स्वप्रवचने अवदत् यत् अस्मिन् अतिशयकारी मन्दिरे याचनायै न आगन्तव्यम् अपि तु प्रार्थनायै आगन्तव्यम्। भगवान् दर्शितेन सत्याहिंसामार्गेण गत्वा समताभावं स्वीकरणीयं यथाशक्ति त्यागदानं च करणीयम् तथा श्रावकस्य सर्वाणि कर्तव्यानि अवश्यं पालनियानि इति।

दिगम्बरजैनसमाजस्य अध्यक्षः अनिलजैनः मन्त्री अरविन्दजैनश्च सर्वेषां स्वागतं कृतवन्तौ आभारं च व्यक्तवन्तौ।मुरादाबाददिगम्बरजैनसमाजस्य महिला इकायाः अध्यक्षा नीलमजैना अवदत् यत् अतिशयवान् भगवान् चन्द्रप्रभोः प्रतिष्ठादिवसः तथा भगवान् आदिनाथस्य मोक्षकल्याणकपर्व च अस्माभिः सर्वैः आनन्दमयेन उत्सवेन समाचरितः, येन अयं दिवसः स्मरणीयः अभवत्।

कार्यक्रमे टीएमयूकुलाधिपतिः सुरेशजैनः, बीनाजैना, राजीवजैनः, नितिनजैनः, शुभमजैनः, शिखाजैना, प्रीतिजैना, रिचाजैना, रीनाजैना, ऋतुजैना च अन्ये बहवः श्रद्धालवः उपस्थिताः आसन्।

हिन्दुस्थान समाचार