मौनी अमावस्यां वाराणस्यां च लक्षं श्रद्धालवःमौनं स्वीकृत्य पवित्र गंगायामकुर्वन् आस्थावगाहनं दान पुण्यं च
—बाबा विश्वनाथे,कालभैरव मंडले च उपस्थितिः ,आवर्षं पर्वणः पुण्‍य बेलायां सुखसमृद्धये बाबाविश्वनाथो प्रार्थितः वाराणसी,18 जनवरीमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिकनगरी वाराणसी (काशी) नगरे माघमासस्य कृष्णपक्षे मौनी-अमावस्यायां रविवासरे लक्षाधिकाः श
मौनी अमावस्या पर गंगा स्नान करते श्रद्धालु


मौनी अमावस्या पर गंगा स्नान करते श्रद्धालु


—बाबा विश्वनाथे,कालभैरव मंडले च उपस्थितिः ,आवर्षं पर्वणः पुण्‍य बेलायां सुखसमृद्धये बाबाविश्वनाथो प्रार्थितः

वाराणसी,18 जनवरीमासः (हि.स.)।

उत्तरप्रदेशस्य धार्मिकनगरी वाराणसी (काशी) नगरे माघमासस्य कृष्णपक्षे मौनी-अमावस्यायां रविवासरे लक्षाधिकाः श्रद्धालवः पवित्रायां गङ्गायां मौनव्रतं धारयन्तः पुण्यस्नानं कृतवन्तः। ततः ते गङ्गाघट्टेषु दानपुण्यं कृत्वा काशीपुराधिपतेः बाबा विश्वनाथस्य, माता अन्नपूर्णायाः तथा कालभैरवस्य दरबारेषु दर्शनार्थम् उपस्थितिं कृतवन्तः।

महास्नानपर्वणि श्रीकाशीविश्वनाथस्य दरबारे दर्शनपूजनार्थं बांसफाटकतः एव दीर्घा पङ्क्तिः दृष्टा। सर्वार्थसिद्धि-हर्षण-शिववासयोगानां दुर्लभसंयोगे महास्नानपर्वे गङ्गायां स्नानार्थं दूरदूरस्थेभ्यः जिलाभ्यः आगताः श्रद्धालवः शनिवासरस्य सायंकालादेव गङ्गातटे समागताः।

शीतलवातैः गलनयुक्ते वातावरणे गङ्गातटेषु दशाश्वमेधस्थितानां दुकानपथेषु च चितरञ्जनपार्के च रात्रौ सर्वे भजनकीर्तनं कृतवन्तः, ब्रह्ममुहूर्ते च श्रद्धालवः पुण्यस्नानं कृतवन्तः। दिने उन्नते स्नानार्थं जनसमूहः उत्तरोत्तरं वर्धितः।

महास्नानपर्वणि प्राचीनदशाश्वमेधघट्टे, शीतलाघट्टे, तुलसीघट्टे, पञ्चगङ्गाघट्टे, रीवाघट्टे, अस्सीघट्टे, गायघट्टे, राजघट्टे, भैंसासुरघट्टे, खिड़कियाघट्टे तथा सामनेघट्टे अत्यधिकं जनसमागमः अभवत्।

महास्नानपर्वस्य अवसरं दृष्ट्वा जिला-प्रशासनस्य तर्फतः सुरक्षायाः व्यापकाः व्यवस्था कृताः। एनडीआरएफ्-दलस्य तथा जलपुलिसस्य जवानाः गङ्गायां सर्वासु आपत्सु निपुणतया सज्जाः आसन्। दशाश्वमेधघट्टात् आरभ्य बाबा विश्वनाथस्य दरबारपर्यन्तं उच्चाधिकारीणः बलसमेताः निरन्तरं निरीक्षणं कृतवन्तः।

मौनी-अमावस्यायां गङ्गास्नानपरम्परानुसारं जनपदे चौबेपुरक्षेत्रस्य बलुआ-कैथीघट्टयोः अपि ग्राम्याः बहुसंख्यायां गङ्गास्नानार्थं आगताः। ग्राम्यप्रदेशस्य महिलाः गङ्गास्नानानन्तरं पीपलवृक्षस्य परिक्रमां कृत्वा तीर्थपुरोहितेभ्यः भिक्षुकेभ्यः च तिलं कम्बलं वस्त्राणि उड़दादीनि अन्नानि दानरूपेण अददुः। ततः भगवान् विष्णुः पूजा-अर्चनया आराधितः।

उल्लेखनीयम् यत् धर्मनगऱ्यां काश्यां स्नानदानयोः विशेषं महात्म्यं विद्यते। विशेषतः मौनी-अमावस्यायां मौनव्रतेन पुण्यकाले मोक्षदायिन्यां गङ्गायां स्नानात् जन्मजन्मान्तरकृतपापेभ्यः मुक्तिर्लभ्यते इति श्रद्धा।

शिवाराधनासमितेः डॉ. मृदुलमिश्रः कथयति यत् अमावस्या प्रतिमासं द्विवारं भवति, परन्तु माघमासस्य अमावस्यायाः सनातनधर्मे विशेषं महत्त्वं विद्यते। माघमासः कार्तिकमासस्य सदृशः पुण्यमासः इति अपि कथ्यते। अतोऽस्मात् कारणात् श्रद्धालवः विशेषतः प्रयागराजस्य त्रिवेणीसङ्गमतटे मासपर्यन्तं कुटीं निर्माय मायिकसंसारात् विरक्ताः सन्तः निवसन्ति, नित्यं गङ्गास्नानं कृत्वा भजनकीर्तनं च कुर्वन्ति।

मौनी-अमावस्यायां मौनं धारयित्वा प्रयागराजे त्रिवेणीसङ्गमे अथवा काश्यां दशाश्वमेधघट्टे गङ्गास्नानं कृत्वा संकल्पपूर्त्यानन्तरं स्वगृहं प्रत्यागच्छन्ति। संवत्सरे द्वादश अमावस्याः भवन्ति, तासु मौनी-अमावस्यायाः विशेषं महत्त्वं विद्यते।

---------------

हिन्दुस्थान समाचार