उत्तरप्रदेशस्य कैबिनेट मंत्रिणो राकेश सचानस्य बालिकाविवाहे कानपुरं प्राप्नोत् मुख्यमंत्री योगी ,अनेके बहवो नेतारोऽपि आगताः
कानपुरम्, 18 जनवरीमासः (हि.स.)। उत्तरप्रदेशराज्यस्य मन्त्रिमण्डलेषु मन्त्रि राकेशसचानस्य पुत्र्याः विवाहसमारोहे सहभागिनो भवितुं रविवासरे चन्द्रशेखरआजादकृषिविश्वविद्यालयस्य परिसरे निर्मिते हेलिपैडे उत्तरप्रदेशस्य मुख्यमन्त्रिणः योगीआदित्यनाथस्य हे
सुरक्षा घेरे में सीएम योगी आदित्यनाथ व अन्य


कानपुरम्, 18 जनवरीमासः (हि.स.)।

उत्तरप्रदेशराज्यस्य मन्त्रिमण्डलेषु मन्त्रि राकेशसचानस्य पुत्र्याः विवाहसमारोहे सहभागिनो भवितुं रविवासरे चन्द्रशेखरआजादकृषिविश्वविद्यालयस्य परिसरे निर्मिते हेलिपैडे उत्तरप्रदेशस्य मुख्यमन्त्रिणः योगीआदित्यनाथस्य हेलिकॉप्टरम् अवतरत्। तस्य आगमने महापौरैः विधायकैश्च तस्य स्वागतं कृतम्। मुख्यमन्त्रिणा सह मन्त्रिमण्डलस्य मन्त्री स्वतन्त्रदेवसिंहः अपि उपस्थितः आसीत्।

तस्मिन्नेव काले सीएसएपरिसरे निर्मिते अन्यस्मिन् हेलिपैडे पूर्वराष्ट्रपतेः रामनाथकोविन्दस्य हेलिकॉप्टरम् अपि अवतरत्। तस्य स्वागताय बहवः पक्षकार्यकर्तारः उपस्थिताः आसन्। पूर्वराष्ट्रपतिः सर्वान् हस्तसंयोगेन नमस्कृत्य अभिवादनं स्वीकृतवान्।

विदितमेव यत् बिठूरस्थितस्य सूक्ष्मलघुमध्यमउद्यम तथा खादीग्रामोद्योगविभागस्य मन्त्रिणः राकेशसचानस्य पुत्र्याः विवाहः अस्ति। तस्मिन् समारोहे सहभागी भवितुं देशप्रदेशयोः अनेकाः शीर्षनेतारः कानपुरनगरे आगताः सन्ति।

समारोहे सहभागी प्रमुखातिथिषु उत्तरप्रदेशस्य राज्यपालः आनन्दीबेनपटेलः मध्यप्रदेशस्य मुख्यमन्त्री डॉ मोहनयादवः पूर्वराष्ट्रपतिः रामनाथकोविन्दः मुख्यमन्त्री योगीआदित्यनाथः मन्त्रिमण्डलस्य मन्त्री स्वतन्त्रदेवसिंहः इत्यादयः दशाधिकाः विशिष्टव्यक्तयः नगरे उपस्थिताः सन्ति। सुरक्षादृष्ट्या नगरे सर्वत्र सतर्कता वर्धिता अस्ति। सीएसएपरिसरः अपि सैनिकछावणीवत् परिवर्तितः अस्ति। कार्यक्रमस्थलपर्यन्तं च सर्वेषु स्थानेषु पुलिसदलेन कठोरं पहरं स्थापितम् अस्ति।

हिन्दुस्थान समाचार