Enter your Email Address to subscribe to our newsletters

रायपुरनगरम्, १९ जनवरीमासः (हि.स.)। भारतीय-जनता-पक्षस्य नूतन-राष्ट्रीय-अध्यक्षस्य निर्वाचनार्थम् अद्य सोमवासरे अपराह्णे द्विवादनात् चतुर्वादनपर्यन्तं नामाङ्कन-प्रपत्राणि समर्पयितुं शक्यन्ते। अद्य सायंकाले पञ्चवादनात् षड्वादनपर्यन्तम् अभ्यर्थिनः स्व नामाङ्कनं प्रतिनिवर्तयितुम् अपि शक्नुवन्ति।
भारतीय-जनता-पक्षस्य कार्यकारी-अध्यक्षः नितिन-नबीनः अद्य राष्ट्रीय अध्यक्ष-पदाय नामाङ्कन-प्रपत्रं समर्पयिष्यति। तस्य नामाङ्कनस्य समर्थनार्थं छत्तीसगढ-राज्यात् मुख्यमन्त्री विष्णुदेव-सायः, उपमुख्यमन्त्री अरुण-सावः, उपमुख्यमन्त्री-गृहमन्त्री विजय-शर्मा इत्येतै: सह आहत्य सप्तदश प्रस्तावकाः भविष्यन्ति।तेषु प्रस्तावकेषु— मुख्यमन्त्रीविष्णुदेव-सायः, उपमुख्यमन्त्री-अरुण-सावः, उपमुख्यमन्त्री-गृहमन्त्री विजय-शर्मा, प्रदेशाध्यक्षः किरणदेव-सिंहः, राष्ट्रीय-उपाध्यक्षा लता-उसेंडी, सरोज-पाण्डेय:,राजनांदगांव-लोकसभा-सांसदः सन्तोष-पाण्डेयः, राज्यसभा-सांसदः देवेंद्र-प्रताप-सिंहः, पूर्व-राज्यसभा-सांसदः राजा-रणविजय-सिंहः, दुर्ग-लोकसभा-सांसदः विजय-बघेलः, भारतीय-जनता-पक्षस्य वरिष्ठ-नेता पुन्नूलाल-मोहले, रायपुर-लोकसभा-सांसदः बृजमोहन-अग्रवालः, केन्द्रीय-राज्य-मन्त्री तोखन-साहू, कैबिनेट-मन्त्री केदार-कश्यपः,कैबिनेट-मन्त्री ओ.पी.-चौधरी, तथा भारतीय-जनता-पक्षस्य वरिष्ठ-नेता नारायण-चन्देलः इत्येते प्रस्तावकाः सन्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani