देवस्थान-विभागे अर्चकानां तथा अन्येषां पदानां कृते नियुक्तिः भविष्यति
जयपुरम्, १९ जनवरीमासः (हि.स.)।सोमवासरे शासन-सचिवालये पशुपालन–गोपालन–डेयरी–देवस्थान-विभागस्य कैबिनेट्-मन्त्रिणः जोराराम-कुमावतस्यअध्यक्षतायां देवस्थान-विभागस्य समीक्षा-सभा आयोजिताभवत्। अस्यां सभायां बजट्-घोषणानां क्रियान्वयनस्य विषये गहन-चर्चा कृता
देवस्थान विभाग की समीक्षा बैठक


जयपुरम्, १९ जनवरीमासः (हि.स.)।सोमवासरे शासन-सचिवालये पशुपालन–गोपालन–डेयरी–देवस्थान-विभागस्य कैबिनेट्-मन्त्रिणः जोराराम-कुमावतस्यअध्यक्षतायां देवस्थान-विभागस्य समीक्षा-सभा आयोजिताभवत्।

अस्यां सभायां बजट्-घोषणानां क्रियान्वयनस्य विषये गहन-चर्चा कृता।अस्मिन् अवसरे राजस्थान-सर्वकारस्य महत्त्वाकाङ्क्षी-योजना — वरिष्ठ-नागरिक-तीर्थयात्रा-योजना–२०२५ इत्यस्य समीक्षा कृत्वा देवस्थान-मन्त्री जोराराम-कुमावतः रेल-यात्रा तथा विमान-यात्रा मार्च–२०२६ पर्यन्तं अनिवार्यतया सम्पन्नं कर्तुं निर्देशान् दत्तवान्।

अस्मिन् विषये देवस्थान-आयुक्तः कन्हैयालाल-स्वामी अवदत् यत् अद्यावधि ४० रेल-यानैः ३४,७५५ वरिष्ठ-नागरिकाः विभिन्न-तीर्थस्थलानां दर्शनं कृतवन्तः। एवमेव २९ विमान-यानैः १५२१ यात्रिण: नेपाल-देशस्य तीर्थस्थल-दर्शनाय नीताः सन्ति। समीक्षा-सभायां मन्त्री कुमावतःन्यायालयेषु लंबित-प्रकरणानां शीघ्र-निस्तारणम्, देवस्थान-विभागस्य स्वतन्त्र-निर्माण-शाखा-स्थापनम्, कृषियोग्य-भूमेः पट्ट-दानेन उपयोगः,तथा चिह्नित-मन्दिरेषु निर्माण-कार्याणांडीपीआर-निर्माणं वित्तीय-प्रशासनिक-अनुमोदनं च प्राप्य कार्य-प्रारम्भः कर्तव्यः इति निर्देशान् दत्तवान्।

सभायां देवस्थान-मन्त्री कुमावतः सिन्धु-दर्शन-योजनायाम् श्रद्धालुभ्यः प्रदातव्य-आर्थिक-सहायता-राशेः वृद्धये प्रस्तावं प्रेषयितुं विभागीय-अधिकारिण: निर्दिष्टवान्। सः विभागस्य कैडर्-रिव्यू-प्रस्तावस्य निर्माणम्, तथा पूजारिणाम् अन्येषां विभिन्न-कैडर-पदानां नव-सृजनंनव-नियुक्ति-प्रस्तावः सज्जी कर्तुं निर्देशान् दत्तवान्। मोक्ष-कलश-यात्रायाम्यात्रिक-संख्या-वृद्धेः विषये अपि सभायां चर्चा कृता। देवस्थान-मन्त्री कुमावतः अतिरिक्त-आयुक्त-स्तरीय-अधिकारीणां मासिक-कार्य-समीक्षाम् अनिवार्यं कृत्वास्पष्टतया अवदत् यत् मुख्यमन्त्रिणः व्यय-घोषणानां प्राथमिकतया क्रियान्वयने यः कोऽपि शिथिलतां करिष्यति, सः कदापि न सहिष्यते। एतस्मिन् विषये आयुक्तं विशेषतया निर्दिष्टवान्।

अस्यां सभायां शासन-सचिवा शुचि-त्यागी,वित्तीय-सलाहकारा दर्शना-देवी, उप-सचिवः आलोक-सैनी, अतिरिक्त-आयुक्तः गितेश-मालवीयः उपस्थिताः आसन्, तथादेवस्थान-आयुक्तः कन्हैयालाल-स्वामी आभासी-माध्यमेन सभायां सम्मिलितः अभवत्।

हिन्दुस्थान समाचार / Dheeraj Maithani