शिक्षा शोधः चल समाज-निर्माणस्य सर्वाधिक-दृढाधारौ — केन्द्रीय-मन्त्री शेखावतः
बीकानेरनगरम्, १९ जनवरीमासः (हि.स.)। बीकानेर-नगरे स्थिते राजकीय-डूंगर-महाविद्यालये सोमवासराद् आरभ्य कर्कट-रोग-अनुसन्धानस्य तथा विकिरण-जीवविज्ञानविषयकस्य च अग्रणी-क्षेत्रस्य अन्ताराष्ट्रिय-समेलनस्य शुभारम्भः अभवत्। महाविद्यालय-परिसरे द्विदिवसीय-शैक्ष
शिक्षा और शोध समाज निर्माण के सबसे मजबूत आधार : केंद्रीय मंत्री गजेन्द्रसिंह शेखावत


बीकानेरनगरम्, १९ जनवरीमासः (हि.स.)। बीकानेर-नगरे स्थिते राजकीय-डूंगर-महाविद्यालये सोमवासराद् आरभ्य कर्कट-रोग-अनुसन्धानस्य तथा विकिरण-जीवविज्ञानविषयकस्य च अग्रणी-क्षेत्रस्य अन्ताराष्ट्रिय-समेलनस्य शुभारम्भः अभवत्। महाविद्यालय-परिसरे द्विदिवसीय-शैक्षिक-महाकुम्भस्य अन्तर्गतं केन्द्रीय-मन्त्री गजेन्द्रसिंह-शेखावत-महाभागः आभासी-माध्यमेन सम्बद्धः सन् अवदत् यत् शिक्षा शोधः च समाज-निर्माणस्य सर्वाधिक-दृढाधारौ स्तः। कर्कट-रोगः अस्माकं कालेषु सर्वाधिक-गम्भीरासु समस्यासु अग्रणी अस्ति। अतः एतादृशानि आयोजनानि अस्माकं सामाजिकं कर्तव्यं भवन्ति। राजकीय-डूंगर-महाविद्यालयः तथा सहकारी-संस्थाः स्वकर्तव्यपालने सम्यक् प्रकारेण प्रवर्तन्ते। अग्रिम-काले एतेभ्यः आयोजनेभ्यः समाजः एतादृशाभ्यः समस्याभ्यः निवारणस्य दिश: प्राप्स्यति।प्रताप-सभागारे आयोजिते अस्मिन् सम्मेलने देश-विदेशेभ्यः आगतैः विकिरण-वैज्ञानिकैः, कर्कट-रोग-विशेषज्ञैः, रेडियो-थेरेपिस्टचिकित्सकै: तथा यून-शोधार्थिभिः बहुसंख्यया सहभागिता कृता। अस्मिन् आयोजने द्विशताधिकानि पञ्जीकरणानि अभवन्। कार्यक्रमस्य आरम्भे महाविद्यालयस्य प्राचार्यः प्रोफेसर राजेन्द्र-पुरोहित: अवदत् यत् पश्चिम-विधायकः जेठानन्द-व्यास:, महाराजा-गंगासिंह-विश्वविद्यालयस्य कुलपतिः मनोज-दीक्षित:, पुष्पेन्द्र-सिंह-शेखावत:, महाविद्यालय-शिक्षा-विभागस्य सहायक-निदेशकः डॉ.नीति-शर्मा, आचार्य-तुलसी-कर्कट-अनुसन्धान-केन्द्रस्य निदेशकः, प्राणिशास्त्र-विभागस्य प्रभारी डॉ.प्रताप-सिंह: इत्येतै: च सह देश-विदेशेभ्यः आगतानां विशिष्ट-व्यक्तिनां राजस्थानी-परम्परानुसारं स्वागतं सम्मानं च कृतम्।

अस्मिन् अवसरे आयोजनस्य संयोजिका डॉ.अर्चना-पुरोहित: स्वागत-भाषणं कृत्वा द्विदिवसीय-कार्यक्रमस्य विस्तृत-रूपरेखां प्रस्तुतवती। प्राचार्यः प्रो.राजेन्द्र-पुरोहित: एतत् सम्मेलनं नगरस्य प्रदेशस्य च गौरवम् इति अवदत् तथा विश्वासं प्रकटितवान् यत् एतस्मात् आयोजनात् प्राप्तैः परिणामैः अस्माकं कर्कट-रोग-समक्षं कर्तुं सामर्थ्यं वर्धिष्यते।

अस्य द्विदिवसीय-समेलनस्य निदेशकः प्रो.कैलाश-स्वामी अवदत् यत् अद्य त्रीणि प्रौद्योगिकी-सत्राणि सम्पन्नानि। तेषु डॉ.अरुण-चौगले, श्रीलङ्कातः आगतः डॉ.जयसिंघम्, डॉ.जेयासुगीथथान:, लुधियानातः डॉ.मेरी-जोन:, कनाडातः डॉ.राज-नारनावारे च विकिरणस्य स्वास्थ्ये पतितानां प्रभावाणां विषये प्रकाशं कृतवन्तः। सत्रस्य अध्यक्षता डॉ.कमलेश-मुंबरेकर:, डॉ.एम.डी.शर्मा तथा उप्पल-घोष: च अकुर्वन्। तदनन्तरं शोधार्थिभिः स्व-स्व-विषयकेषु विज्ञापनेषु विभिन्नेषु क्षेत्रेषु कृतानां शोध-नवाचाराणां प्रदर्शनं कृतम्। व्योम-केन्द्रे आयोजितस्य तृतीय-प्रौद्योगिकी-सत्रस्य अध्यक्षता डॉ.मेहुल-देव:, डॉ.विशाख-केडलियाउर: तथा डॉ.प्रताप-सिंह: च अकुर्वन्।

हिन्दुस्थान समाचार / Dheeraj Maithani