गोरखपुरम् : आस्था, मनोरंजनं जीविका चेत्येषां संगमः जातो कृशरान्नमेलापकः
गोरखपुरम्, 19 जनवरीमासः (हि.स.)। नाथपथः विश्वप्रसिद्धे गोरखनाथमन्दिरे आयोजितः खिचडीमेलः श्रद्धा मनोरञ्जनं च रोजगारस्य च सुन्दरः संगमः जातः। अत्र महायोगिगुरोः गोरखनाथस्य दर्शनं कृत्वा खिचडीं समर्प्य श्रद्धालवः मेले मनोरञ्जनं कुर्वन्ति आवश्यकवस्तून
Devotees are enjoying themselves and shopping along with offering Khichdi to Mahayogi Gorakhnath.


गोरखपुरम्, 19 जनवरीमासः (हि.स.)।

नाथपथः विश्वप्रसिद्धे गोरखनाथमन्दिरे आयोजितः खिचडीमेलः श्रद्धा मनोरञ्जनं च रोजगारस्य च सुन्दरः संगमः जातः। अत्र महायोगिगुरोः गोरखनाथस्य दर्शनं कृत्वा खिचडीं समर्प्य श्रद्धालवः मेले मनोरञ्जनं कुर्वन्ति आवश्यकवस्तूनां च प्रचुरं क्रयविक्रयं कुर्वन्ति। मेले उमडमानया श्रद्धालुजनानां महती भीडेन अत्र आपणस्थापकेभ्यः रोजगारव्यवसायः समृद्धिं प्राप्य तेषामार्थिकस्थितौ दृढवृद्धिं जनयति।

महाशिवरात्रिपर्यन्तं मेलकः प्रवर्तते

मकरसङ्क्रान्तेः दशदिनपूर्वादारभ्य प्रवर्तमानः खिचडीमेलः महाशिवरात्रिपर्यन्तं भविष्यति। मकरसङ्क्रान्तेः मुख्यपर्वदिने एव प्रायः पञ्चविंशतिलक्षाधिकाः श्रद्धालवः आगताः। तस्मात् एकदिनपूर्वं मुख्यपर्वोत्तरं च श्रद्धालुजनानामागमनं निरन्तरं वर्तते समग्रः मेलापरिसरश्च परिपूर्णः दृश्यते। गोरक्षपीठाधीश्वरस्य मुख्यमन्त्रिणः योगी आदित्यनाथस्य मार्गदर्शने श्रद्धालुभ्यः व्यवसायिभ्यश्च सुरक्षा सुविधा सौकर्याणां विशेषव्यवस्थाः कृताः।

व्यवसायाय उत्कृष्टा व्यवस्था

गोरखनाथमन्दिरे आयोजितः पारम्परिकः कृशरान्नमेलकः सामाजिकसमरसतया सम्बद्धस्य रोजगारव्यवसायस्य महत् मंचः अपि भवति। अत्र जातिधर्मभेदं विना जनानामागमनं भवति परिसरमध्ये च सर्वेषां जातिधर्माणां व्यवसायिभ्यः निष्पक्षतया स्थानं दीयते। श्रद्धायाः सम्मानात् रोजगारस्य क्षेत्रमपि विस्तरति। श्रद्धालवः प्रसादं पुष्पमालां मनोरञ्जनं अल्पाहारं च आवश्यकवस्तूनि क्रेतुं व्ययं कुर्वन्ति तेन आर्थिकक्रियासु नवगतिर्जायते। मेलापके आपणस्थापके व्यवसायिनः वदन्ति यत् व्यवसायाय उत्कृष्टा व्यवस्था लभ्यते। जनसमूहः एतादृशः वर्तते यत् षण्मासव्यवसायस्य फलम् एकस्मिन् अर्धमासाधिके काले एव सिध्येदिति आशा अस्ति।

मेले पञ्चशताधिकाः आपणाः सञ्जाताः कृशरान्नमेलापके पञ्चशताधिकाः आपणाः शोभन्ते। आपणस्थापकानां सप्ततिप्रतिशतं व्यवसायिनः प्रदेशस्य अन्येभ्यः जनपदेभ्यः अथवा अन्येभ्यः राज्येभ्यः आगताः। अत्र राजस्थानात् दिल्ली कोलकातात् च तथा प्रदेशस्य मुरादाबाद सीतापुर सहारनपुर इटावा बुलन्दशहर इत्यादि जनपदेभ्यः बहवः व्यवसायिनः आपणाः स्थापयन्ति। श्रद्धायाः जनप्रवाहं दृष्ट्वा सर्वे अत्यन्तं हृष्टाः सन्ति। सीतापुरात् आगतः इब्राहिमः मेलापके स्त्रीहस्तकपुटिकानां पुटिकानां च आपणं स्थापयति। सः वदति यत् संमर्दस्य प्राचुर्येण व्यवसायः अत्यन्तं सुचारुं प्रवर्तते। गोपालगञ्जात् आगतः श्रद्धालुः जगदीशदूबे मेलाभ्रमणकाले अवदत् यत् योगिशासनं श्रद्धां अर्थव्यवस्थया सह संयोज्य जीविकायाः नवमाडलम् अदात् यत्र सर्वेभ्यः अवसरः लभ्यते। अत एव गोरखनाथमन्दिरपरिसरे प्रायः अर्धमासाधिकं प्रवर्तमानः कृशरान्नमेलकः जातिधर्मविभागातीतः बहूनां जनानां आजीविकायाः साधनं जातः।

---------------

हिन्दुस्थान समाचार