Enter your Email Address to subscribe to our newsletters





खड़गपुरम्, 19 जनवरीमासः (हि.स.)।
पश्चिममेदिनीपुरजनपदस्य खड़गपुरनगरे मालञ्चानामके स्थाने आदि पूजासमित्याः तत्त्वावधानात् रविवासरस्य रात्रौ पारम्परिकस्य पिठा पुली नामकस्य उत्सवस्य भव्यं शुभारम्भः अभवत्। स्थानीयसंस्कृतेः बङ्गालीपाकविद्यायाश्च समर्पितः अयं द्विदिवसीयः उत्सवः सोमवासरं जनवरीमासस्य विंशतितमदिनाङ्कं यावत् प्रवर्तिष्यते। रविवासरे रात्रौ नववादने आयोजिते भव्ये उद्घाटनसमारोहे पुलिसप्रशासनिकाधिकारीभिः सह क्षेत्रस्य प्रमुखराजनैतिकमुखैः जनप्रतिनिधिभिश्च उपस्थितिः कृता।
उद्घाटनसमारोहे विशेषतया खड़गपुरस्य उपविभागीयपुलिसाधिकारी धीरजठाकुरः तृणमूलकांग्रेसस्य जिलाध्यक्षः सुजयहाजरः तथा खड़गपुरनगरथानस्य प्रभारी पार्थसारथीपालः उपस्थिताः आसन्। तेषां सह मेदिनीपुर खड़गपुर विकासप्राधिकरणस्य उपाध्यक्षः प्रदीपसरकारः पूर्वनगरपालिका अध्यक्षः जवाहरलालपालः प्रमुखाः सामाजिककार्यकर्तारश्च मञ्चं साझा कृतवन्तः।
उत्सवस्य महत्त्वं दृष्ट्वा नगरस्य विविधवार्डानां पार्षदाः अपि कार्यक्रमे सम्मिलिताः। तेषु मुख्यतया वार्डसंख्या एकादशस्य पार्षदः हरिशकुमारः वार्डसंख्या नवस्य पार्षदः प्रवीरघोषः अन्ये च स्थानीयजनप्रतिनिधयः आसन्। सर्वे अतिथयः समितेः अध्यक्षेन सदस्यैश्च पारम्परिकरीत्या स्वागताः।
समारोहं सम्बोधयन् उपविभागीयपुलिसाधिकारी धीरजठाकुरः अवदत् यत् पिठा पुली उत्सवः अस्माकं स्थानीयसंस्कृतेः परम्पराणां च संरक्षणाय एकः सुन्दरः अवसरः अस्ति। एतादृशाः आयोजनाः बालकान् युवान् च स्वसांस्कृतिकमूलैः सह संयोजयन्ति। अपरं च मेदिनीपुर खड़गपुर विकासप्राधिकरणस्य उपाध्यक्षः प्रदीपसरकारः एतं उत्सवं बङ्गालस्य गौरवशालिनः विरासतस्य भावीपीढीपर्यन्तं प्रेषणाय एकं सशक्तं माध्यमम् इति वर्णितवान्।
समितेः अध्यक्षः अवदत् यत् अस्य उत्सवस्य मुख्योद्देश्यः बाङ्ग्लासंस्कृतेः विशेषतया शीतकालीनपाकानां पिठा पुली नाम्नां जनजनपर्यन्तं प्रचारः अस्ति। उत्सवस्थले पारम्परिकपिठा पुली नामकानां नानाविधानां विक्रयकक्षाः स्थापिताः सन्ति यत्र जनाः पातिसापला दूधपुली चाकलीपिठा इत्यादीनां स्वादूनां आस्वादनं कुर्वन्ति। तदनन्तरं स्थानीयकलाकारैः सांस्कृतिकप्रस्तुतयः अपि प्रदीयन्ते याः आगन्तुकानां विशेषाकर्षणकेन्द्रं भूत्वा दृश्यन्ते।
हिन्दुस्थान समाचार