Enter your Email Address to subscribe to our newsletters

ग्वालियरनगरम्, १९ जनवरीमासः (हि.स.)। केन्द्रीय-सञ्चार-विभाग:, सूचना-प्रसारण-मन्त्रालयेन मध्यप्रदेशस्य ग्वालियर-नगरे महाराणी-लक्ष्मीबाई-शासकीय-उत्कृष्ट-महाविद्यालये अद्य सोमवासरात् “विकसित-भारत @2047” विषयाधारिताया द्विदिवसीयाया प्रदर्शिन्याः आयोजनं क्रियते। प्रदर्शिन्याः शुभारम्भः प्रातः ११ वादने भविष्यति। केन्द्रीय-सञ्चार-विभागस्य प्रभारी-क्षेत्रीय-प्रचार-अधिकारी देवेन्द्र-बाथरी अवदत् यत् अस्यां प्रदर्शिन्यां “विकसित-भारत @2047”, “नेक्स्ट-जेन जीएसटी” तथा “वीबी-जी राम-जी” विषयाधारितानां छायाचित्राणां प्रदर्शनं क्रियते।
अस्याः प्रदर्शिन्याः उद्देश्यं साधारण-नागरिकान् भारत-सर्वकारस्य प्रमुख-जनकल्याणकारी-योजनाभ्यः, विकासात्मक-उपलब्धिभ्यः, तथा भविष्य-विकास-दृष्टेः अवगतकरणम् अस्ति। एषा प्रदर्शिनी सर्वेषां कृते निःशुल्का भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता