Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, १९ जनवरीमासः (हि.स.)। विद्यालय-शिक्षा-विभागस्य तथा जनजातीय-कार्य-विभागस्य अन्तर्गतं विद्यालयेषु छात्रावासेषु च कार्यरताः अंशकालिकाः, अस्थायिन:, आउटसोर्स-कर्मचारिणश्च न्यूनतम-वेतनस्य तथा नियमितीकरणस्य याचनार्थं स्वस्य आन्दोलनं तीव्रं कृतवन्तः सन्ति। अस्यैव क्रमस्य अन्तर्गतं अद्य सोमवासरे प्रातः ११ वादने राजधान्यां भोपाल-नगरे स्थितस्य डायरेक्टोरेट-ऑफ-पब्लिक-इन्स्ट्रक्शन (DPI)-कार्यालयस्य पुरत: रदर्शनं क्रियते।
एतत् प्रदर्शनम् “अस्थायी-आउटसोर्स-कर्मचारी-मोर्चा, मध्यप्रदेशः” इति ध्वजस्य अधीनं आयोजितम् अस्ति। आन्दोलनरताः कर्मचारिणः वदन्ति यत् ते विगतेभ्य: विंशतिवर्षेभ्यः अधिककालपर्यन्तं सेवां ददति, तथापि तेषां मासिक-वेतनं केवलं ४–५ सहस्र-रूप्यकम् एव अस्ति, यत् शासनद्वारा निर्धारितात् न्यूनतम-वेतनात् अपि न्यूनम् अस्ति।
कर्मचारिणः आरोपं कुर्वन्ति यत् दीर्घकालात् एव तैः स्व-याचना: प्रस्तुताः, तथापि शासनस्य तथा विभागीय-अधिकारिणां द्वारा तेषां समस्यासु कश्चन दृढ-पदक्षेप: अद्यापि न नीत:। प्रदर्शनकारिणां प्रमुख-याचनासु न्यूनतम-वेतन-प्रयोगः, नियमितीकरणं, तथा सेवायां सुरक्षा च अन्तर्भवन्ति।
कर्मचारिणः संचेतनां दत्तवन्तः यत् यदि तेषां याचनासु शीघ्रं निर्णयः न क्रियते, तर्हि आन्दोलनम् अधिकं उग्रं करिष्यन्ति, यस्य सम्पूर्ण-उत्तरदायित्वं शासन-प्रशासनस्य एव भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता