Enter your Email Address to subscribe to our newsletters

प्रयागराजम्, १९ जनवरीमासः (हि.स.)। मालवीय-अभियान-शिक्षण-प्रशिक्षण-केन्द्रेण ईश्वर-शरण-पीजी-महाविद्यालये, प्रयागराज-नगरे यूजीसी तथा भारत-सर्वकारस्य शिक्षा-मन्त्रालयस्य महत्त्वाकाङ्क्षी-परियोजनायाः अन्तर्गतंद्वादश-दिवसीय-पुनश्चर्या-पाठ्यक्रमस्यसोमवासरे शुभारम्भः अभवत्। अस्य कार्यक्रमस्य विषयः — “फ्यूचर्-रेडी-फैकल्टी : रिसर्च्-मेथडोलॉजी-एकीकरणंनवोन्मेषी-अध्यापन-एवं-मूल्याङ्कन-प्रौद्योगिकी” इति आसीत्। प्रारम्भे एमएमटीसी-केन्द्रस्य निदेशकः तथा महाविद्यालयस्य प्राचार्यः प्रो.आनन्द-शङ्कर-सिंहः देशस्य विभिन्न-संस्थाभ्यःआगतान् सहभागिनः तथा कार्यक्रम-सञ्चालकान् अग्रिम-शुभकामनाभिःअभिनन्दितवान्। सह-निदेशकः डा.मनोज-कुमार-दुबे सहभागिनः सम्बोधयन् अवदत् यत् अस्मात् केन्द्रात् अयं षोडशतम: (१६) कार्यक्रम: अस्ति तथाएतत् अस्माकं गौरवस्य क्षणम् इति। तेन एफडीसी-केन्द्रस्य निर्माणात् आरभ्य तत्र सञ्चालितानां कार्यक्रमाणां उपलब्धीनां च विस्तृत-विवरणं सहभागिनां कृते प्रदत्तम्। उद्घाटन-सत्रस्य मुख्यातिथिः तथा मुख्य-वक्ता प्रो.पीयूष-रञ्जन-अग्रवालः (पूर्व-प्राध्यापकः, एमएनआईटी) अध्यापनस्य मूल-तत्त्वानां विषये विस्तृतचर्चां कृतवान्।तेन मानव-व्यवहारस्य परिवर्तनम्, डिजिटल-साधनानां उपयोगेन लाभाः, शिक्षकाणां कर्म, तथा तस्य विद्यार्थिषु प्रभावः इत्यादिषु विषयेषु मौलिक-सिद्धान्ताः व्याख्याताः। अनन्तरं डा.प्रतीक-राजः (एसोसिएट्-प्रोफेसरः, बिजनेस-मैनेजमेण्ट् एवं हेल्थ-साइन्स, यूनिवर्सिटी-कोलेज-लण्डन) विविध-शोध-प्रकाराणि सहभागिनः अवबोधितवान्। तेन मात्रात्मक-गुणात्मक-एथ्नोग्राफिक्-शोधः इत्यादिनां विषये विस्तरेण चर्चा कृता। स: भारत–चीन–अमेरिका-इत्यादि-संस्कृतिषु स्वानुभवान् सहभागं कृत्वा एथ्नोग्राफिक-अध्ययनस्य महत्त्वम्, आवश्यकता च विशेषतः प्रतिपादितवान्।
द्वितीय-सत्रस्य वक्ता डा.ए.पी.त्रिपाठी (वैज्ञानिकः) शोध-चलचित्र-व्याख्यानस्यमहत्त्वं विशेषतया प्रकाशितवान्। तेन उक्तं यत् शोधः उद्देश्यपूर्णा वैज्ञानिक-प्रक्रिया अस्ति, यस्य लक्ष्यं सत्यान्वेषणं तथा सामाजिक-समस्यानां समाधानम् इति। तेन शोध-पत्राणां विविध-प्रकाराः, मात्रात्मक-गुणात्मक-मिश्रित-शोधः इत्यादिषु उदाहरणैः सह चर्चा कृता।
कार्यक्रमस्य रूपरेखा-प्रस्तुति: तथा अतिथीनां स्वागतं पुनश्चर्या-पाठ्यक्रमस्य संयोजकः डा.विवेकानन्द-त्रिपाठी अकरोत्। धन्यवाद-ज्ञापनं सह-संयोजिकाडा.अञ्जना-श्रीवास्तव कृतवती।
अस्मिन् कार्यक्रमे देशस्य १८ राज्येभ्यः आगताः प्रायः २०० सहभागिनः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / Dheeraj Maithani