देसंविवि के सातवें दीक्षांत समारोह में 1379 विद्यार्थियों को मिली उपाधियां
हरिद्वारम्, 19 जनवरीमासः (हि.स.)। गङ्गातटे सम्पन्ने देवसंस्कृति विश्वविद्यालयस्य सप्तमे समावर्तनसमारोहे मुख्यातिथिरूपेण उपस्थितः जूनापीठाधीश्वरः स्वामी अवधेशानन्दगिरिः अवदत् यत् गायत्रीपरिवारेण गतदशकेषु युगचेतनां प्रबोधयितुं ऐतिहासिकं कार्यं कृतम
दीक्षांत समारोह के दौरान मंचासीन अतिथि


हरिद्वारम्, 19 जनवरीमासः (हि.स.)।

गङ्गातटे सम्पन्ने देवसंस्कृति विश्वविद्यालयस्य सप्तमे समावर्तनसमारोहे मुख्यातिथिरूपेण उपस्थितः जूनापीठाधीश्वरः स्वामी अवधेशानन्दगिरिः अवदत् यत् गायत्रीपरिवारेण गतदशकेषु युगचेतनां प्रबोधयितुं ऐतिहासिकं कार्यं कृतम्। सः अवदत् यत् एषः आन्दोलनः केवलं धार्मिकानुष्ठानपर्यन्तं सीमितः नास्ति, अपि तु समाजस्य प्रत्येकवर्गस्य अधिकारकर्तव्येषु जनान् जागरूकान् कर्तुं प्रवृत्तः एकः व्यापकः सांस्कृतिकः अभियानः अस्ति।

सः अपि उक्तवान् यत् गायत्रीपरिवारेण नरनारीसमत्वं व्यवहारतः स्थापयित्वा महिलानां आत्मसम्मानं शिक्षां नेतृत्वावसरं च प्रदत्तम्। तथैव अस्पृश्यतादृशसामाजिककुरीतीनां उन्मूलने, समाजे एकतासमताभावस्य विस्तारे, मानवीयमूल्यानां पुनर्स्थापने च अस्य भूमिका अत्यन्तं प्रभावशालिनी अभवत्।

अस्मिन् अवसरे समारोहाध्यक्षः देवसंस्कृति विश्वविद्यालयस्य प्रतिकुलपतिः डॉ चिन्मयः पण्ड्यः अवदत् यत् अद्यतनशिक्षायाः लक्ष्यं केवलं बाह्यपरिस्थितीनां सामना कर्तुं नास्ति, अपि तु आन्तरिकायाः सुप्तायाः चेतनायाः जागरणं कर्तुं भवति। बाह्यां अग्निं शमयित्वा आन्तरिकां सेवासद्भावराष्ट्रभावरूपां अग्निं प्रज्वालयितुं या प्रवृत्तिः सा एव सच्चा दीक्षा इति सः अवदत्। यदि युवजनाः स्वशिक्षां सेवया संस्कारेण साधनया च संयोजयेयुः तर्हि ते न केवलं स्वजीवनं सार्थकं कर्तुं शक्नुवन्ति, अपि तु राष्ट्रस्य मानवतायाश्च उत्थाने निर्णायकां भूमिकां वोढुं समर्थाः भवन्ति।

सः अवदत् यत् एषः दीक्षान्तसमारोहः विद्यार्थिनां कृते नूतनारम्भस्य नूतनदायित्वस्य नूतनसंकल्पस्य च प्रतीकरूपेण अभवत्, यत्र शिक्षां जीवननिर्माणप्रक्रियारूपेण पश्यितुं सन्देशः स्पष्टतया प्रकटितः।

अस्मिन् अवसरे हाउस आफ लार्ड लन्दनस्य सदस्यः लार्ड कृष रावलः अवदत् यत् देवसंस्कृति विश्वविद्यालयः केवलं शैक्षणिकसंस्था न, अपि तु आध्यात्मिकसांस्कृतिकआन्दोलनरूपेण अन्ताराष्ट्रियस्तरे प्रशंसनीयं कार्यं कृतवान्। हाउस आफ लार्ड लन्दनस्य अन्यः सदस्यः लार्ड मेण्डल्सन् अवदत् यत् लन्दनदेशस्य प्रधानमन्त्री कीर स्टार्मरः सम्पूर्णाय गायत्रीपरिवाराय स्वशुभेच्छाः प्रेषितवान्।

अस्मिन् समारोहे शान्तिकुञ्जस्य व्यवस्थापकः योगेन्द्रगिरिः, स्वामी राम हिमालयन विश्वविद्यालयस्य कुलपतिः डॉ विजयः धस्मानः, डॉ अजयः तिवारी, डॉ फिरोजः मिस्त्री, डॉ जहानः मिस्त्री, डॉ शोभितः माथुरः, डॉ दिनेशः शास्त्री, डॉ सतीशः कुमारः शर्मा, पोलाण्डदेशे स्थितः भारतस्य राजदूतः श्री कार्तिकेयः जौहरी इत्यादयः तथा विश्वस्य विंशत्यधिकदेशेभ्यः प्रतिनिधयः उपस्थिताः आसन्।

विश्वविद्यालयस्य प्रथमतया उत्तीर्णाः अपि सम्मानिताः। वर्ष 2023 मध्ये श्रेया सिंह, वर्ष 2024 मध्ये शीतल कक्कड, वर्ष 2025 मध्ये उपासना शर्मा च टॉपररूपेण घोषिताः। वर्षे 2022 23 मध्ये 29 विद्यार्थिभ्यः सुवर्णपदकानि प्रदत्तानि, वर्षे 2023 24 मध्ये 31 छात्रछात्राभ्यः, वर्षे 2024 25 मध्ये 29 युवभ्यः सुवर्णपदकानि वितरितानि।

तथैव किरन, सविता, रविन्द्र बालोदिया, आशीष कुमार, दिलीप सराह, प्रज्ञा श्रीवास्तव, विपिन पुनीयाल, लालिमा बाथम, शिल्पी वर्मा, विद्या सिंह, वन्दना कुमारी, श्रद्धाञ्जलि त्रिपाठी, दिवाकर शर्मा, टिकेश्वर बिसेन, महेन्द्र प्रताप सिंह राणा, रजत पाण्डेय इत्यादयः सहितं चत्वारिंशत् शोधार्थिनः पीएचडी उपाधिभिः सम्मानिताः। तेषां हिन्दी, योगविज्ञानमानवचेतना, प्राच्यअध्ययन, इतिहासभारतीयसंस्कृतिः, मनोविज्ञानं, भारतीयशास्त्रीयसंगीत, शिक्षाशास्त्र, पत्रकारिता, कम्प्यूटरविज्ञान इत्यादिषु विविधविषयेषु शोधसमाप्तौ डॉक्टरेट उपाधयः प्रदत्ताः।

समारोहे आहत्य 1379 विद्यार्थिभ्यः डिप्लोमा स्नातक परास्नातक डॉक्टरेट उपाधयः प्रदत्ताः। भारतस्य भारतीयसंस्कृतेश्च उद्घोषसंकल्पेन सह तेषां निवृत्तिप्रयाणं सम्पन्नम्।

हिन्दुस्थान समाचार