Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 19 जनवरीमासः (हि.स.)।
राज्यसभासदस्या डॉ. कल्पना सैनी अवदत् यत् विकसितभारतस्य लक्ष्यं तदा एव साकारं भविष्यति यदा ग्रामाः, दरिद्राः, कृषकाः, महिलाः च युवजनाः आत्मनिर्भराः भविष्यन्ति। सा वीबी जी राम जी योजना जनजागरण-अभियान-सम्मेलनं सम्बोधयन्ती आसीत्।
विकसितभारतस्य संकल्पस्य साकारतायै दिशि विकसितभारत-गारण्टी-फॉर्-रोजगार्-एण्ड्-आजीविका-मिशन-ग्रामीण-अधिनियमः (वीबी जी राम जी) जनजागरण-अभियानस्य अन्तर्गतं रुड़की-नगर-निगम-सभागारे सम्मेलनस्य आयोजनं कृतम्। अस्मिन् सम्मेलने राज्यसभासदस्या डॉ. कल्पना सैनी, भाजपाजिलाध्यक्षः डॉ. मधु सिंह इत्यादयः वक्तारः अभियानस्य उद्देश्यं, कार्ययोजनां तथा तस्य दूरगामी लाभान् विस्तरेण अवदन्।
राज्यसभासदस्या डॉ. कल्पना सैनी अवदत् यत् विकसितभारत-जी-राम-जी-योजनायाः उद्देश्यं ग्रामीणप्रदेशेषु स्थायी-रोजगार-अवसराणां सृजनं, स्वरोजगारस्य प्रोत्साहनं तथा स्थानीय-संसाधनानां माध्यमेन आजीविकायाः नवान् उपायान् विकासयितुम् अस्ति। सा अवदत् यत् केन्द्र-राज्य-सरकारयोः जनकल्याणकारी-योजनाः अस्मिन् मिशने संयोज्य पात्र-लाभार्थिभ्यः प्रत्यक्षं लाभः प्रापयिष्यते।
भाजपाजिलाध्यक्षः डॉ. मधु सिंह अवदत् यत् एषः अभियानः संगठनस्य समाजस्य च संयुक्त-प्रयासैः एव सफलो भविष्यति। सः कार्यकर्तॄन् आह्वयत् यत् ते गृहं-गृहं गत्वा जनान् अस्मिन् अभियाने संयोजयेयुः तथा अन्तिम-व्यक्तिपर्यन्तं लाभ-प्राप्तौ सेतु-भूमिकां निर्वहेयुः। सः एतत् ग्रामीणभारतस्य समग्र-विकासस्य दृढां नीवीं इति वर्णयामास।
राज्यमन्त्री देशराज कर्णवाल अवदत् यत् नगरीय-ग्रामीण-प्रदेशयोः समन्वित-विकासाय एतादृशानाम् अभियानानां अत्यन्तं आवश्यकता अस्ति। सः अवदत् यत् स्थानीय-स्तरे कौशल-विकासस्य, लघु-उद्योगानां तथा स्वरोजगारस्य माध्यमेन रोजगारस्य नवानि अवसराणि सृज्यन्ते।
कार्यक्रमस्य संचालनं संयोजकः संजय अरोड़ा अकरोत्। सः कार्यक्रमस्य रूपरेखां प्रस्तूय अभियानस्य विविध-चरणानां विषये जानकारीं दत्तवान्।
अस्मिन् सम्मेलने सहसंयोजकः सचिन झबरेडी, अनिल चौधरी, राज्यमन्त्री श्यामवीर सैनी, शोभाराम प्रजापति, अल्पसंख्यक-मोर्चायाः प्रदेशाध्यक्षः अनीश गौड़, जिला-महामन्त्री सागर गोयल, जिला-उपाध्यक्षः भीम सिंह इत्यादयः प्रमुखां भूमिकां निर्वहन्ति स्म।
हिन्दुस्थान समाचार