Enter your Email Address to subscribe to our newsletters


पटना, ०२ जनवरीमास: (हि.स.)।बिहारस्य मुख्यमन्त्री नीतिशकुमारः शुक्रवासरे पटना-नगरे स्थितस्य ऐतिहासिक–पुरातात्त्विक–स्थलस्य कुम्हरार–उद्यानस्य निरीक्षणं कृतवान्। निरीक्षणकाले सः मगध–साम्राज्य–कालेन सम्बन्धितानां संरक्षितानां स्तम्भानां तथा अन्येषां पुरावशेषाणाम् अवलोकनं कृतवान्। बुलन्दी-उद्यान–उत्खननस्य, कुम्हरार–उत्खननस्य, तथा मौर्यकालीनस्य अशीतिस्तम्भयुक्तस्य विशाल–सभागारस्य विषये स्थापिता: सूचना–फलकाः अपि मुख्यमन्त्रिणा निरीक्षिताः।
निरीक्षणावसरे मुख्यमन्त्रिणा अधिकारिणः निर्दिष्टाः यत् कुम्हरार–उद्यानस्य उत्तम–विकासाय सौन्दर्यीकरणाय च केन्द्र–सर्वकारं प्रति पत्रं प्रेषयन्तु। सः अवदत् यत् कुम्हरार–उद्यानम् अत्यन्तं प्राचीनम् ऐतिहासिक–महत्त्वयुक्तं च स्थलम् अस्ति, यस्य प्रत्यक्षः सम्बन्धः मगध–साम्राज्येन सह वर्तते।
मुख्यमन्त्रिणा उक्तं यत् उद्यानं विस्तीर्णं वर्तते तथा च अत्र भ्रमणाय बहवः जनाः आगच्छन्ति; अतः उद्यान–परिसरस्य, प्रदर्शानां, पुरावशेषाणां च सम्यक् संरक्षणं विकासश्च अत्यावश्यकः।
नीतिशकुमारः अवदत् यत् अस्य स्थलस्य ऐतिहासिक–महत्त्वम् अवगन्तुं इतिहास–विद्यार्थिनः शोधकर्तारश्च देशस्य विविधेभ्यः भागेभ्यः विदेशेभ्यश्च अत्र आगच्छन्ति। एतत् दृष्ट्वा कुम्हरार–उद्यानस्य योजनाबद्धं सौन्दर्यीकरणं संरक्षणं च अत्यन्तम् आवश्यकम्।
संरक्षण–विकासयोः शासनस्य केन्द्रबिन्दुःमुख्यमन्त्रिणा स्पष्टं कृतं यत् कुम्हरार–उद्यान–सदृशानां ऐतिहासिक–स्थलानां संरक्षणं विकासश्च राज्य–शासनस्य प्राथमिकता अस्ति, येन आगामिन्यः पीढ्यः बिहारस्य गौरवशालीम् इतिहासं ज्ञातुं बोधयितुं च शक्नुयुः।
मौर्यकालीन–विशाल–सभागारस्य ऐतिहासिकं महत्त्वम्वर्षेषु १९१२–१५ तथा १९५१–५५ कृतयोः उत्खननेषु अत्र मौर्यकालीनः अशीतिस्तम्भयुक्तः विशालः सभागारः प्रकाशे आगतः। अस्मिन् सभागारे स्तम्भानां दश पङ्क्तयः पूर्वात् पश्चिमदिशम्, अष्ट पङ्क्तयः उत्तरात् दक्षिणदिशं च आसन्। स्तम्भानां मध्ये प्रायः पञ्चदश–पाद–परिमाणम् अन्तरालम् आसीत्, सभागारश्च दक्षिणाभिमुखः आसीत्।
किन्तु समीपवर्तिनां विकास–कार्याणां भू–जल–स्तर–वृद्धेश्च कारणेन एतत् पुरास्थलं जलमग्नं जातम्, येन स्तम्भानाम् अवशेषाणां च अस्तित्वे संकटम् उत्पन्नम्। ततः विशेषज्ञ–समितेः अनुशंसायां वर्षे २००५ तमे अस्य स्थलस्य मृत्तिका–सिकताभ्यामाच्छादनं कृतम्, येन अवशेषाः सुरक्षिताः स्युः।
पाटलिपुत्रस्य गौरवशाली इतिहासःप्राचीनकाले आधुनिकं पटना–नगरं पाटलिपुत्रम् इति ख्यातम् आसीत्। षष्ठी–शताब्द्यां ईसा–पूर्वे यदा भगवान् बुद्धः अस्य क्षेत्रस्य भ्रमणं कृतवान्, तदा पाटलिग्रामः लघु–ग्रामः आसीत्। तस्मिन् काले मगध–राजा अजातशत्रुः वैशाली–निवासिभ्यः लिच्छविभ्यः संरक्षणार्थं अत्र दुर्ग–निर्माणं कारितवान्।
मेगास्थनीजस्य तथा चीनीय–यात्रिकाणाम् उल्लेखःचन्द्रगुप्त–मौर्यस्य सभायामागतः यूनानी–दूतः मेगास्थनीजः स्वग्रन्थे इण्डिका इत्यस्मिन् पाटलिपुत्रस्य (पालिबोथ्रा) विस्तृतं वर्णनं कृतवान्। तस्य वर्णनानुसारं नगरं गङ्गा–तटे चतुर्दश–किलोमीटर–दीर्घं त्रि–किलोमीटर–विस्तीर्णं च आसीत्, यस्य परिमापः प्रायः षट्–त्रिंशत्–किलोमीटरम् आसीत्। नगरं काष्ठ–स्तम्भयुक्तया चतुर्दिक्–प्राकार–व्यवस्थया गह्वर–खात्या च सुरक्षितम् आसीत्।
प्रसिद्धः चीनीय–यात्रिकः फाह्यानः पाटलिपुत्रं समृद्धं विद्याया: प्रमुखं केन्द्रं च इति अवदत्, यद्यपि ह्वेनसाङ्गः (वेनत्साङ्गः) सप्तमे शताब्द्यामस्य नगरस्य अवशेषणम् उल्लेखं कृतवान्। पाटलिपुत्रं पाल–शासकानां राजधानी अपि आसीत्; अनन्तरं राजधानी–पदं लुप्तमपि अस्य नगरस्य महत्त्वं निरन्तरं स्थितम्।
हिन्दुस्थान समाचार / अंशु गुप्ता