Enter your Email Address to subscribe to our newsletters

रायपुरम्, 02 जनवरीमासः (हि.स.)।
छत्तीसगढ़राज्यसर्वकारे वित्तीयवर्षस्य 2026–27 तृतीयबजटस्य तयारीं तीव्रीकृतवती। मुख्यमन्त्री विष्णुदेवसायस्य नेतृत्वे अस्यां वेलायां सर्कारस्य मुख्यफोकसः विकासे जनकल्याणे च प्राथमिकतानां सुदृढीकरणे अस्ति। वित्तमन्त्रालयसम्बद्धसूत्रविशेषज्ञाश्च मन्यन्ते यत् सर्कारस्य लक्ष्यं बजटप्रक्रियाम् पारदर्शिनीं योजनाबद्धां समयबद्धां च कर्तुम्। एताभ्यः गोष्ठीभ्यः शिक्षा स्वास्थ्य ग्रामीणविकास महिला-सशक्तिकरणम् अवसंरचनाविकासश्च इत्येतेषु प्राथमिकक्षेत्रेषु संतुलितः प्रभावी च बजटः सुनिश्चितुं शक्यते।
राज्यवित्तमन्त्रालयात् प्राप्तसूचनां अनुसारं 6–9 जनवरीपर्यन्तं भविष्यन्त्यः एताःगोष्ठ्यो वित्तमन्त्री ओ पी चौधरी अध्यक्षत्वेन नेतुं करिष्यन्ति। ते चत्वारि दिवसानि मन्त्रिणां विभागीयप्रस्तावानां समीक्षा करिष्यन्ति। एताः समीक्षोपवेशनानि 6–9 जनवरीपर्यन्तं नवानगरस्थितमन्त्रालये वित्तमन्त्रिणः कक्षे भविष्यन्ति। सर्वे विभागाः स्वस्वनूतनराजस्वमदाः, नूतनयोजनाः प्रस्तावितपरियोजनाश्च प्रस्तोतुं करिष्यन्ति।
6 जनवरीमासस्य प्रातः 11 वादनं उद्योग–आबकारी–श्रममन्त्री लखनलालदेवांगन स्वविभागस्य नूतनप्रस्तावान् उपस्थापयिष्यति। तदेव दिने द्वादशवदने स्वास्थ्य–चिकित्साशिक्षा–ओबीसीकल्याणमन्त्री श्यामबिहारीजायसवाल बैठकं करिष्यति। द्विवदने पर्यटन–संस्कृति–धार्मिकन्यासमन्त्री राजेशअग्रवाल स्वाधिकारिभिः सह चर्चां करिष्यति। ततः एकघण्टानन्तरं त्रिवदने कौशलविकास–तांत्रिकशिक्षा–अनुसूचितजातीकल्याणमन्त्री गुरु-खुश्वन्त विभागीययोजनासु चर्चा करिष्यति।
सप्तजनवरीप्राते 11 वदने वन–परिवहन–सहकारिता–संसदीयकार्य मन्त्री केदारकश्यप स्वविभागस्य समीक्षा करिष्यति। तदेव दिने द्वादशवदने राजस्व–विद्यालयशिक्षा–उच्चशिक्षामन्त्री टंकरामवर्मा उपवेशनंकरिष्यति। मध्यान्हे 2.30 वदने अजाककल्याण–कृषि–मत्स्य–पशुधनपालनमन्त्री रामविचारनेताम स्वविभागानां प्रस्तावान् उपस्थापयिष्यति। सायं 4 वदने वित्तमन्त्री ओ पी चौधरी स्वयम् वित्तविभागसम्बद्धेषु प्रस्तावेषु अन्तिमनिर्णयं करिष्यति।
अष्टमजनवरी इति दिनांके उपमुख्यमन्त्री अरुणसावस्य नेतृत्वे लोकनिर्माणविभागस्य लोकस्वास्थ्य-यान्त्रिकी क्रीडा-युवाकल्याण नगरीयप्रशासन-विभागानां च बजटप्रस्तावेषु चर्चा भविष्यति। अनन्तरं द्विवादनार्धे विद्यालयशिक्षा ग्रामोद्योग विधि-विधायीविभागानां प्रस्तावाः उपस्थापिताः भविष्यन्ति।
नवजनवरी द्वादशवदने महिला-बालविकास-समाजकल्याणमन्त्री लक्ष्मीराजवाड़े च, द्विवदने उपमुख्यमन्त्री विजयशर्मा गृह–पंचायत–ग्रामीणविकास–सूचनातन्त्रज्ञानविभागानां प्रस्तावानां विषये मन्थनं करिष्यत इति। वित्तविभागस्य अनुसारं मुख्यमन्त्री विष्णुदेवसायसम्बद्धविभागानां राजस्वप्रस्तावेषु पृथक् चर्चा भविष्यति।
हिन्दुस्थान समाचार