Enter your Email Address to subscribe to our newsletters

रायपुरनगरम्, ०२ जनवरीमासः (हि.स.)। छत्तीसगढ-राज्यस्य मुख्यमन्त्री विष्णुदेव–सायः अद्य शुक्रवासरे दन्तेवाडा-जनपदस्य प्रवासे भविष्यति।मुख्यमन्त्री सायः अद्य प्रातः ११ वादने रायपुर-नगरात् दन्तेवाडा-नगरं प्रति प्रस्थानं करिष्यति। तत्र सः माता दन्तेश्वरी-मन्दिरे दर्शन-पूजनं करिष्यति। ततः पश्चात् सः ‘बस्तर-पण्डुम–२०२६’ इति कार्यक्रमे सहभागं करिष्यति।कार्यक्रमानन्तरं सः नवीन-सर्किट-हाउस, दन्तेवाडानगरं प्रति गमिष्यति। तदनन्तरम् अपराह्णे २.३५ वादने दन्तेवाडा-नगरात् पुनः रायपुर-नगरं प्रति प्रस्थानं करिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता