Enter your Email Address to subscribe to our newsletters


नागदानगरम्, ०२ जनवरीमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डा.मोहन–यादवः शुक्रवासरे नागदा–नगरे आगत्य भाजपा–उज्जयिनी–ग्रामीण–जनपद–अध्यक्षस्य राजेश–धाकडस्य पुत्रस्य विवाह–समारोहे सहभागमकरोत्। अस्मिन् अवसरे सः वर–वधुभ्याम् आशीर्वादं प्रदत्तवान्।
मुख्यमन्त्री मध्याह्ने १२:३० वादने वायुयानद्वारा ग्रासिम–वायुयानपत्तने अवतीर्य ततः विवाह–स्थलं गतवान्। कर्नाटक–राज्यस्य राज्यपालः थावरचन्द–गेहलोतः अपि मुख्यमन्त्रिणा सह उपस्थितः आसीत्। उभाभ्यां नवविवाहिताभ्यां वरवधुभ्यां रितिक–वर्षाभ्याम्—आशीर्वादः प्रदत्तः।
तदनन्तरं मुख्यमन्त्री खाचरोद–नगरे आयोजितेषु लोकार्पण–भूमिपूजन–कार्यक्रमेषु सहभागमकरोत्।
हिन्दुस्थान समाचार / अंशु गुप्ता