शासकीय–योजनानां लाभ–प्राप्तये कृषकैः एग्रीस्टैक–पटले पञ्जीकरणं अनिवार्यम्
धर्मशाला, ०२ जनवरीमासः (हि.स.)।प्रधानमन्त्री-कृषक–सम्मान–निधि–योजनायाः लाभार्थि–कृषकाणां कृते एग्रीस्टैक–पटले पञ्जीकरणम् अनिवार्यम् इति काङ्गड़ा–जनपदस्य उपायुक्तः हेमराज–बैरवा अवदत्। तेन उक्तं यत् एग्रीस्टैक–पटले पञ्जीकरणं कृत्वा कृषकाः एकां विशेष–
उपायुक्त कांगड़ा।


धर्मशाला, ०२ जनवरीमासः (हि.स.)।प्रधानमन्त्री-कृषक–सम्मान–निधि–योजनायाः लाभार्थि–कृषकाणां कृते एग्रीस्टैक–पटले पञ्जीकरणम् अनिवार्यम् इति काङ्गड़ा–जनपदस्य उपायुक्तः हेमराज–बैरवा अवदत्। तेन उक्तं यत् एग्रीस्टैक–पटले पञ्जीकरणं कृत्वा कृषकाः एकां विशेष–परिचय–सङ्ख्यां प्राप्स्यन्ति, अग्रिम–काले कृषि–सम्बद्धाः सर्वाः शासकीय–योजनाः केवलं तेषां कृषकाणां कृते एव उपलब्धाः भविष्यन्ति येषां समीपे सा विशेष–परिचय–सङ्ख्या भविष्यति।उपायुक्तः अवदत् यत् कृषकाः स्व–पञ्जीकरणं निकटस्थेषु लोकमित्र–केन्द्रेषु गत्वा कर्तुं शक्नुवन्ति। एतत् पञ्जीकरणं सर्वेषु लोकमित्र–केन्द्रेषु निःशुल्कं क्रियते। शासनद्वारा प्रत्येकं सफल–पञ्जीकरणस्य कृते लोकमित्र–केन्द्राय द्वादश–रूप्यक–परिमाणं धनराशिः अपि प्रदीयते; अतः सर्वे कृषकाः अस्य निःशुल्क–सेवायाः लाभं गृह्णीयुः। तदतिरिक्तं कृषकाः स्व–चल–दूरवाण्या अपि एग्रीस्टैक–पटले पञ्जीकरणं कर्तुं शक्नुवन्ति।तेन अवगतं कृतं यत् पञ्जीकरणार्थं कृषकैः आधार–पत्रम्, आधार–संलग्नां चल–दूरवाणी–सङ्ख्याम्, तथा स्व–भूमेः कस्यचित् अंशस्य जमाबन्दी–ततीमा अथवा कस्यचित् खसरा–सङ्ख्यया सह लोकमित्र–केन्द्रं गन्तव्यम्। सः जनपदस्य राजस्व–विभागस्य ग्राम–स्तरीय–अधिकारिणः अपि निर्देशितवान् यत् येषां कृषकाणां समीपे खाता–खतौनी–सङ्ख्या नास्ति, तेषां कृते सा उपलब्धा कार्या, तथा पटले प्रविष्टेः अनन्तरं तस्य अनुमोदनं अपि कर्तव्यम्।तेन लोकमित्र–केन्द्र–सञ्चालकान् अपि अवदत् यत् ते शीघ्रतया कृषकाणां एग्रीस्टैक–पटल–पञ्जीकरण–कार्यं पूर्णं कुर्वन्तु। अन्ते उपायुक्तः अवदत् यत् यदि कृषकाणां काचिदपि समस्या जायते, तर्हि ते निकटस्थं कृषि–विभाग–कार्यालयं सम्पर्कं कर्तुं शक्नुवन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani