Enter your Email Address to subscribe to our newsletters

- सांदीपनि-विद्यालयस्य लोकार्पणं भविष्यति
भोपालम्, ०२ जनवरीमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहनयादवः अद्य शुक्रवासरे उज्जयिनी-जनपदस्य प्रवासे भविष्यति। अस्मिन् प्रवासे सः खाचरौद-नगरे ७४.३५ कोटि-रूप्यकेभ्य: अधिक-मूल्यानां विविध-विकास-कार्याणां लोकार्पणं तथा भूमिपूजनं करिष्यति।
जनसम्पर्क-अधिकारी अनिकेत–शर्मा सूचनां प्रदाय अवदत् यत् मुख्यमन्त्री डॉ.यादवः खाचरौदनगरे आयोजिते कार्यक्रमे ४८.५१ कोटि-रूप्यक-मूल्यानां विकास-कार्याणां लोकार्पणं तथा २५.८४ कोटि-रूप्यक-मूल्यानां विकास-कार्याणां भूमिपूजनं करिष्यति।
मुख्यमन्त्री ३५.४० कोटि-रूप्यक-व्ययेन निर्मितस्य सांदीपनि-विद्यालयस्य लोकार्पणं अपि करिष्यति। तदनन्तरं खाचरौद-नगरे ९ कोटि १० लक्ष-रूप्यक-व्ययेन निर्मीयमानस्य संयुक्त-तहसील-कार्यालय-भवनस्य भूमिपूजनं अपि तेन करिष्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता